आदित्याश्च ततस्तेषां विहिताः प्रपितामहाः। त्रिविधा अपि आहूय पुनरुक्ता विरिंचिना
भवद्भिः पिंडदानाद्यं ग्राह्यमत्र स्थितैस्सदा। यत्कृतं पितृकार्यं च तदनंतफलं भवेत्
वृत्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः। लभंते तर्पणात्तृप्तिं पिंडदानात्त्रिविष्टपम्
तस्मात्सर्वं परित्यज्य प्राचीने पिंडदो भवेत्। दत्वा पुत्रः प्रयत्नेन पितॄन्सर्वांश्च तर्पयेत्
प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम्। आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम्
स्पृष्ट्वा तु सलिलं तत्र मुच्यते जन्मबंधनात्। अवगाहनाद्ब्रह्मणोऽसौ भवत्यनुचरः सदा
आदितीर्थे नरः स्नात्वा यः प्रदद्यात्समाधिना। अन्नमल्पमपि प्रायः प्रायशस्स्वर्गमाप्नुयात्
यस्तत्र ब्रह्मभक्तानां नरः स्नात्वा ददेद्धनम्। कृसेरणापि हेम्ना च स स्वर्गे मोदते सुखी
प्राचीसरस्वती तत्र नरैः किं मृग्यते परम्। तस्यां स्नानात्फलं तृप्त्यै तपोयज्ञादिलक्षणम्
ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम्। न ते नराः सुरा ज्ञेया मार्कंडेयर्षिरब्रवीत्
सरस्वती नदीं प्राप्य न स्नाने नियमः क्वचित्। भुक्ते वा न च वा भुक्ते दिवा वा यदि वा निशि
तत्तीर्थं सर्वत्तीर्थानां प्राचीनं प्रवरं स्मृतत्। पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम्
ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम्। पूजयन्ति यथाशक्ति ते प्रयांति त्रिविष्टपम्
देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती। सेविता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रवीत्
ततस्तस्मान्महातीर्थं मन्यमाना महोदयम्। मंदाकिनीमुदीक्षंती स्थिता तत्र सरस्वती
तत्तीर्थं सर्वतीर्थानां परं स्वायंभुवोऽब्रवीत्। मंदाकिन्यासमं यत्र प्राप्य पुण्यसमागमम्
तत्रस्थाने स्थिता देवैः स्तुता देवी सरस्वती। मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां
सखीं तदाऽसृजद्ब्रह्मा रूपिणीं विमलेक्षणाम्। हरिणीं हरिरप्याशु जज्ञे कमललोचनाम्
वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान्। सुकुरंगरुचिं देवो नीलकंठो वृषध्वजः1.32.
सखीं संजनयामास सरस्वत्यास्त्रिलोचनः। विलोक्यमाना सा राजन्सखीभिः सुरसुंदरी
प्रहृष्टा यातुमारब्धा देवादेशान्महानदी। ततः सखीभिः सार्द्धं सा प्राचीनागंतुमुद्यता
सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता। प्राचीसरस्वतीतोयं ये पिबंति मृगा भुवि
तेपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा। चिंतामणिरिवात्रैषा प्राची ज्ञेया सरस्वती
तथा कामफलस्येयं हेतुभूता महानदी। दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गता
उक्ता तया तथा गंगा दिशं प्राचीं व्रजस्व ह। विस्मर्तव्या न चाहं ते व्रज देवि यथागतम्
भीष्म उवाच। मार्कंडेयेन वै रामः कथमत्र प्रबोधितः। कथं समागमो भूतः कस्मिन्काले कदा मुने
मार्कंडेयः कस्य सुतः कथं जातो महातपाः। नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने
पुलस्त्य उवाच। अथ ते संप्रवक्ष्यामि मार्कंडेयोद्भवं पुनः। पुराकल्पे मुनिः पूर्वं मृकंडुर्नाम विश्रुतः
भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः। तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे
सपंचवार्षिको भूतो बाल एव गुणाधिकः। ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदांगणे