क्रमेण ब्रह्मजा पश्चात्संगता तु सखीजनम्। ज्येष्ठमध्यमयोर्मध्ये संगमो लोकविश्रुतः
पश्चान्मुखी ब्रह्मसुता जाह्नवी तु उदङ्मुखी। ततस्ते विबुधाः सर्वे पुष्करं ये समागताः
विदित्वा दुष्करं कर्म तस्या स्तुतिमकारयन्। त्वं बुद्धिस्त्वं मतिर्लक्ष्मीस्त्वं विद्या त्वं गतिः परा
त्वं श्रद्धा त्त्वं परा निष्ठा बुद्धिर्मेधा रतिः क्षमा। त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मतं महत्
संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती। यज्ञ विद्या महाविद्या गुह्यविद्या च शोभना
आन्वीक्षिकी तु या वार्ता दंडनीतिश्च कथ्यते। नमोस्तु ते पुण्यजले नमः सागरगामिनि
नमस्ते पापनिर्मोके नमो देवि जगत्प्रिये। एवं स्तुता हि सा देवी दिव्या स्वार्थपरायणैः
एवं सा प्राङ्मुखी तत्र स्थिता देवी सरस्वती। सर्वतीर्थमयी देवी सर्वामरसमन्विता
प्राची सेति बुधैर्ज्ञेया ब्रह्मणो वचनं तथा। तत्र शुद्धावटंनाम तीर्थं पैतामहं स्मृतम्
दर्शनेनापि वै तस्य महापातकिनोपि ये। भोगिभोगान्समश्नंति विशुद्धा ब्रह्मणोंतिके
प्रायोपवेशं ये तत्र प्रकुर्वंति नरोत्तमाः। ते मृता ब्रह्मयानेन दिवं यांत्यकुतोभयाः
तत्राल्पमपि यैर्दानं दत्तं ब्रह्मविदात्मनाम्। जन्मांतरशतं तेषां तैर्दत्तं भावितात्मनाम्
खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः। ते ब्रह्मलोकमासाद्य मोदन्ते सुखिनस्सदा
योऽत्र पूजाजपोहोमः कृतो भवति देहिनाम्। अनन्तं तत्फलं सर्वं ब्रह्मभक्तिरतात्मनाम्
तत्र दीपप्रदानेन ज्ञानचक्षुरतींद्रियः। प्राप्नोति धूपदानेन स्थानं ब्रह्मनिषेवितम्
अथ किं बहुनोक्तेन संगमे यत्प्रदीयते। तदनंतफलं प्रोक्तं जीवतो वा मृतस्य च
स्नानाज्जपात्तथा होमादनंतफलसाधकम्। रामेणागत्य वै तत्र पिंडं दशरथस्य च
दत्तं श्राद्धं तत्र तेन मार्कंडेयेन दर्शिते। तत्र वापी चतुःकोणा तत्र पिंडप्रदा नराः
हंसयुक्तेन यानेन सर्वे यांति त्रिविष्टपम्। तस्यां वाप्यां तु वै ब्रह्मा पितृमेधं चकार ह
यज्ञं यज्ञविदां श्रेष्ठः समाप्तवरदक्षिणम्। वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः
आदित्याश्च ततस्तेषां विहिताः प्रपितामहाः। त्रिविधा अपि आहूय पुनरुक्ता विरिंचिना
भवद्भिः पिंडदानाद्यं ग्राह्यमत्र स्थितैस्सदा। यत्कृतं पितृकार्यं च तदनंतफलं भवेत्
वृत्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः। लभंते तर्पणात्तृप्तिं पिंडदानात्त्रिविष्टपम्
तस्मात्सर्वं परित्यज्य प्राचीने पिंडदो भवेत्। दत्वा पुत्रः प्रयत्नेन पितॄन्सर्वांश्च तर्पयेत्
प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम्। आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम्
स्पृष्ट्वा तु सलिलं तत्र मुच्यते जन्मबंधनात्। अवगाहनाद्ब्रह्मणोऽसौ भवत्यनुचरः सदा
आदितीर्थे नरः स्नात्वा यः प्रदद्यात्समाधिना। अन्नमल्पमपि प्रायः प्रायशस्स्वर्गमाप्नुयात्
यस्तत्र ब्रह्मभक्तानां नरः स्नात्वा ददेद्धनम्। कृसेरणापि हेम्ना च स स्वर्गे मोदते सुखी
प्राचीसरस्वती तत्र नरैः किं मृग्यते परम्। तस्यां स्नानात्फलं तृप्त्यै तपोयज्ञादिलक्षणम्
ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम्। न ते नराः सुरा ज्ञेया मार्कंडेयर्षिरब्रवीत्