रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितम्। वृत्तैस्सपुलकैस्स्निग्धैः स्त्रीणामिव पयोधरैः
श्रीफलैः शिखरं भाति समन्तात्सुमनोहरैः। गुंजद्भिः षट्पदकुलैः समंतादुपशोभितम्
कोकिलारावरुचिरं शिखि केका रवाकुलम्। शृंगे मनोहरे तस्मिन्नुद्गतासु मनोरमा
पुण्यापुण्यजलोपेता नदीयं ब्रह्मणस्सुता। वंशस्तंबात्सुविपुला प्रवृत्ता चोत्तरामुखी
गत्वा ततो नातिदूरात्पुनर्याति पराङ्मुखी। ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता
अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया। कनका सुप्रभा चैव नन्दा प्राची सरस्वती
पंचस्रोताः पुष्करेषु ब्रह्मणा परिभाषिता। तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च
संसेवितानि मुनिभिः सिद्धैश्चापि समंततः। तेषु सर्वेषु भविता धर्महेतुः सरस्वती
हाटकक्षितिगौरीणां तत्तीर्थेषु महोदयम्। दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम्
धान्यप्रदानं प्रवरं वदंति तिलप्रदानं च तथा मुनींद्राः । यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतु प्रवरं प्रदिष्टम्
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तेषु कुर्यात्प्रमदा पुमान्वा। तीर्थेपि संयोज्य मनोपि चेत्थं भुंक्ते फलं ब्रह्मगृहे यथेष्टम्
तस्योपकंठे म्रियते हि यैस्तु कर्मक्षयात्स्थावरजंगमैश्च। ते चापि सर्वे सकलं प्रसह्य लभंति यज्ञस्य फलं दुरापम्
ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेतसां तु। सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी
तत्र ये सलिलं पूतं पिबंति सततं नराः। न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः
यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः। तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः
दर्शनात्पुष्करस्यापि महापातकिनोपि ये। तेपि तत्पापनिर्मुक्ताः स्वर्गं यांति तनुक्षये
तत्रोपवासी यज्ञस्य पुंडरीकस्य यत्फलम्। तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे
माघमासे तिलान्यस्तु प्रयच्छति च स द्द्विजे। यथाशक्ति च भक्त्या च स विष्णुभवने वसेत्
तत्रोपवासं स्नानं च पंचगव्याशनं तथा। यः करोति नरः सोपि देहांते स्वर्गमाप्नुयात्1.32.
वसंति तत्समीपस्था येपि तस्करजातयः। तेपि तस्यानुभावेन स्वर्यांति च न संशयः
ये पुनः शूद्रवृत्तिस्थास्त्रिरात्रोपोषिता नराः। प्रयच्छंति द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः
ते मृता यानमारूढाः पद्मासनचतुर्भुजाः। ब्रह्मणा सह सायुज्यं प्राप्नुवंत्यपुनर्भवम्
गंगोद्भेदं यत्र गंगा संप्राप्ता सरितां वराम्। सरस्वतीं द्रष्टुकामा सांत्वार्थे प्रोद्गतांऽबरात्
तत्र गत्वा पयःपूतं सुरसिद्धनिषेवितम्। सारस्वतं च विमलं विद्याधरगणार्चितम्
पीतमेकांजलिमितं येनाप्तं तेन तत्परं। अवलोक्य दिशं पूर्वामाह गंगे सखि त्वया
एकाकिनी वियुक्तास्मि क्व यास्येहमबांधवा। तां विज्ञाय ततो गंगा रुदंतीं शोककर्शिताम्
पूर्वदेशात्समायाता द्रष्टुं तां दीनमानसाम्। दृष्ट्वा च तां महाभागां परिष्वज्य तु पीडिताम्
नेत्रे प्रमृज्य चैतस्याः प्राह गंगा वचस्तदा। मा रोदीस्त्वं महाभागे दुःष्करं ते कृतं सखि
देवकार्यं यदन्येन कर्तुं शक्येत नैव हि। एतस्मात्ते महाभागे द्रष्टुं देवाः समागताः
एषां च क्रियतां पूजा वाङ्मनः काय कर्मणा। सरस्वती सुरेंद्राणां कृत्त्वा पूजा विधिक्रमम्