सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति। नास्तिकीभावनिरतः स वै प्रेतोभिजायते
एवं ब्रुवाणे विप्रेन्द्र आकाशे दुंदुभिस्वनः। पुष्पवृष्टिः पपातोर्व्यां देवैर्मुक्ता सहस्रशः
प्रेतानां तु विमानानि आगतानि समंततः। अस्य विप्रस्य संभाषात्पुण्यसंकीर्तनेन च
तस्मात्सर्वप्रयत्नेन सतां संभाषणं कुरु। यदि ते श्रेयसा कार्यं गंगासुत अतंद्रितः
तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमाम्। पठेल्लक्षं योऽस्य कुले न प्रेतो जायते नरः
शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः। भक्त्या समन्वितो वापि न प्रेतो जायते नरः
भीष्म उवाच। अंतरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते। मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह
येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदम्। तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः
पुलस्त्य उवाच। ऋषिकोटिस्समायाता दक्षिणापथवासिनी। स्नानार्थं पुष्करे राजन्पुष्करं च वियद्गतम्
मत्वाते मुनयः सर्वे प्राणायामपरायणाः। ध्यायमानाः परं ब्रह्म स्थिता द्वादशवत्सरान्
ब्रह्मा महर्षयस्तत्र देवास्सेन्द्रास्समागताः। ऋषयोंतर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान्
आकारणं पुष्करस्य मंत्रेण क्रियतां द्विजाः। आपोहिष्ठेति तिसृभिर्ऋग्भिः सांनिध्यमेष्यति
अघमर्षणजप्येन भवेद्वै फलदायकम्। विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम्
कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः। गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः
ये चान्ये पार्वतीयाश्च श्राद्धेनार्हंति केतनम्। एतस्मात्कारणाद्राजन्वियत्येवं समास्थितम्
कार्तिक्यां पुष्करं स्नानात्पूततामभियच्छति। ब्रह्मणा सहितं राजन्सर्वेषां पुण्यदायकम्
तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः। द्विजैस्तुल्या न संदेहो विना मंत्रेण ते नृप
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित्। महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा
यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित्। तिथिः सापि महापुण्या यतिभिः परिकीर्तिता
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप। सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा
यदा चार्के गुरौ सोमे वारेष्वेतेषु वै त्रिषु। त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा
अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवम्। दानमक्षयतां याति पितॄणां तर्पणं तथा
विशाखासु यदा भानुः कृत्तिकासु च चंद्रमाः। स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः
अंतरिक्षावतीर्णे तु तीर्थे पैतामहे शुभे। स्नानं येऽत्र करिष्यंति तेषां लोका महोदयाः
न स्पृहांतेन्यपुण्यस्य कृतस्याप्यकृतस्य च। करिष्यंति महाराज सत्यमेतदुदाहृतम्
तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते। नास्मात्परं पुण्यतीर्थं लोकेषु नृप पठ्यते
कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा। उदुंबरवनात्तस्मादागता च सरस्वती
तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितम्। दक्षिणे शिखरं भाति पर्वतस्याविदूरतः
नीलांजनचयप्रख्यं वर्णतो नीलशाद्वलम्। तया तच्छिखरं तस्य खस्थितं पुष्करं यथा
प्रावृट्काले वियत्पूर्णं घनवृंदमिवोच्छ्रितम्। कदंबपुष्पगंधाढ्यं कुटजार्जुनभूषितम्