ब्राह्मण उवाच। प्रेतानां कर्मजातानां नाम्ना वै संभवः कुतः। किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः
प्रेता ऊचुः। अहं स्वादु सदा भुंजे दद्यां पर्युषितं द्विजे। एतत्कारणमासाद्य नाम पर्युषितो मम
सूचिता बहवोऽनेन विप्राश्चान्नाद्यकांक्षिणः। एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः
शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च। एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम
गृहोपरि सदा स्वादु भुंक्ते द्विजभयेन हि। उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः
मौने चापि स्थितो नित्यं याचितो विलिखन्महीम्। अस्माकमपि पापिष्ठो लेखको नाम नामतः
कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः। शीघ्रगः पंगुतां प्राप्तः सूची सूचीमुखोऽभवत्
पर्युषितो लम्बग्रीवो लंबोदर उदाहृतः। बृहद्वृषणलंबोष्ठः पापादस्मादजायत
एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम्। पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे
ब्राह्मण उवाच। ये जीवा भुवि तिष्ठंति सर्वेप्याहारमूलकाः। युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः
प्रेता ऊचुः। शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्। यच्छ्रुत्वा निंदसे विप्र भूयोभूयश्च नित्यशः
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च। गृहाणि त्यक्तशौचानि प्रेता भुंजंति तत्र वै
स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च। मलेनापि जुगुप्स्यानि प्रेता भुंजंति तत्र वै
चित्तलज्जाविहीनानि होमहीनानि यानि च। व्रतैश्चैव विहीनानि प्रेता भुंजंति तत्र वै
गुरवो नैव पूज्यंते स्त्रीजितानि गृहाणि च। क्रोधलोभगृहीतानि प्रेता भुंजंति तत्र वै
त्रपा मे जायते तात कथ्यमाने स्वभोजने। अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते
निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत। यथा न भवति प्रेतस्तन्मे वद तपोधन
ब्राह्मण उवाच। एकरात्र द्विरात्रादि कृच्छ्रचांद्रायणदिभिः। व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः
त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते। स वै भूतदयापन्नो न प्रेतो जायते नरः
तुल्यो मानेऽपमाने च तुल्यः कांचनलोष्टयोः। तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः
देवताऽतिथिपूजासु गुरुपूजासु नित्यशः। रतो वै पितृपूजासु न प्रेतो जायते नरः
शुक्लांगारकसंयुक्ता चतुर्थी जायते यदा। श्रद्धया श्राद्धकृत्तस्यां न प्रेतो जायते नरः
जितक्रोधविमर्शोयस्तृष्णासंगविवर्जितः। क्षमावान्दानशीलश्च न प्रेतो जायते नरः
गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा। देवांश्चैव तु यो वन्द्यान्न प्रेतो जायते नरः
प्रेता ऊचुः। श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने। येन वै जायते प्रेतस्तन्नो वद महामते
ब्राह्मण उवाच। शूद्रान्नेन तु भुक्तेन ब्राह्मणेन विशेषतः। म्रियते ह्युदरस्थेन स वै प्रेतो भवेन्नरः
मातरं पितरं भ्रातॄन्भगिनीं सुतमेव च। अदृष्टदोषांस्त्यजति स प्रेतो जायते नरः
अयाज्ययाजनाच्चैव याज्यस्य च विवर्जनात्। रतो वै शूद्रसेवासु स प्रेतो जायते नरः
न्यासापहर्ता मित्रध्रुक्शूद्रपाकरतः सदा। विस्रंभघाती कूटस्थः स प्रेतो जायते नरः1.32.
ब्रह्महा गोघ्नकः स्तेनः सुरापो गुरुतल्पगः। भूमिकन्यापहर्त्ता च स प्रेतो जायते नरः