तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति। पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरम्
प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति। कृतजप्यनमस्कारोप्यद्ध्वानं प्रत्यपद्यत
अग्रतः पंचपुरुषानपश्यत्सोति भीषणान्। वने कंटकवृक्षाढ्ये निर्जने पक्षिवर्जिते
तान्दृष्ट्वा विकृताकारान्सुघोरान्पापदर्शनान्। ईषत्संत्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः
अवलंब्य ततो धैर्य्यं भयमुत्सृज्य दूरतः। पप्रच्छ मधुराभाषी के यूयं विकृताः कुतः
किं वा चैव कृतं कर्म ये नप्राप्ताश्च वैकृतम्। कथमेवंविधाः सर्वे प्रस्थिताः कुत्र चाध्वनि
प्रेता ऊचुः। क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः। हृतप्रज्ञा वयं सर्वे नष्टसञ्ज्ञाविचेतसः
न जानीमो दिशं चापि प्रदिशं चापि कां च न। नांतरिक्षं महीं चापि न जानीमो दिवं तथा
यदेतद्दुःखमाख्यातमेतदेव सुखं भवेत्। प्रभातमिदमाभाति भास्करोदयदर्शनात्
अहं पर्युषितो नाम सूचीमुखस्तथाऽपरः। शीघ्रगो रोहकश्चैव पंचमो लेखकस्तथा
ब्राह्मण उवाच। प्रेतानां कर्मजातानां नाम्ना वै संभवः कुतः। किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः
प्रेता ऊचुः। अहं स्वादु सदा भुंजे दद्यां पर्युषितं द्विजे। एतत्कारणमासाद्य नाम पर्युषितो मम
सूचिता बहवोऽनेन विप्राश्चान्नाद्यकांक्षिणः। एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः
शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च। एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम
गृहोपरि सदा स्वादु भुंक्ते द्विजभयेन हि। उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः
मौने चापि स्थितो नित्यं याचितो विलिखन्महीम्। अस्माकमपि पापिष्ठो लेखको नाम नामतः
कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः। शीघ्रगः पंगुतां प्राप्तः सूची सूचीमुखोऽभवत्
पर्युषितो लम्बग्रीवो लंबोदर उदाहृतः। बृहद्वृषणलंबोष्ठः पापादस्मादजायत
एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम्। पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे
ब्राह्मण उवाच। ये जीवा भुवि तिष्ठंति सर्वेप्याहारमूलकाः। युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः
प्रेता ऊचुः। शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्। यच्छ्रुत्वा निंदसे विप्र भूयोभूयश्च नित्यशः
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च। गृहाणि त्यक्तशौचानि प्रेता भुंजंति तत्र वै
स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च। मलेनापि जुगुप्स्यानि प्रेता भुंजंति तत्र वै
चित्तलज्जाविहीनानि होमहीनानि यानि च। व्रतैश्चैव विहीनानि प्रेता भुंजंति तत्र वै
गुरवो नैव पूज्यंते स्त्रीजितानि गृहाणि च। क्रोधलोभगृहीतानि प्रेता भुंजंति तत्र वै
त्रपा मे जायते तात कथ्यमाने स्वभोजने। अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते
निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत। यथा न भवति प्रेतस्तन्मे वद तपोधन
ब्राह्मण उवाच। एकरात्र द्विरात्रादि कृच्छ्रचांद्रायणदिभिः। व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः
त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते। स वै भूतदयापन्नो न प्रेतो जायते नरः
तुल्यो मानेऽपमाने च तुल्यः कांचनलोष्टयोः। तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः