जयस्व देवि चामुंडे जय भूतापहारिणि। जय सर्वगते देवि कालरात्रि नमोस्तु ते
विश्वमूर्तियुते शुद्धे विरूपाक्षि त्रिलोचने। भीमरूपे शिवे विद्ये महामाये महोदरे
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये। महामारि विचित्रांगि गीतनृत्यप्रिये शुभे
विकरालि महाकालि कालिके पापहारिणि। पाशहस्ते दंडहस्ते भीमहस्ते भयानके
चामुंडे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले। शिवयानप्रिये देवि प्रेतासनगते शिवे
भीमाक्षि भीषणे देवि सर्वभूतभयंकरि। करालि विकराले च महाकालि करालिनि
कालिकरालविक्रांते कालरात्रि नमोस्तु ते। सर्वशस्त्रभृते देवि नमो देवनमस्कृते
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना। तुतोष परमा देवी वाक्यं चैवमुवाच ह
वरं वृणीष्व देवेश यत्ते मनसि वर्तते। रुद्र उवाच। स्तोत्रेणानेन ये देवि स्तोष्यंति त्त्वां वरानने
तेषां त्वं वरदा देवि भव सर्वगता सती। इमं पर्वतमारुह्य यः पूजयति भक्तितः
स पुत्रपौत्रपशुमान्समृद्धिमुपगच्छतु। यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवं
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु। भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम। संवत्सरेण लभतां राज्यं निष्कंटकं पुनः
एषा ज्ञानान्विता शक्तिः शिवदूतीति चोच्यते। य एवं शृणुयान्नित्यं भक्त्या परमया नृप
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात्। यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले1.31.
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते। यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव
न तत्राग्निभयं घोरं सर्वचोरादिसंभवं। यश्चेदं पूजयेद्भक्त्या पुस्तकेपि स्थितं बुधाः
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरं। जायंते बहवः पुत्रा धनं धान्यं वरस्त्रियः
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवंति च। यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत्
भीष्म उवाच। केन कर्मविपाकेन प्रेतत्वं जायते पुनः। केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते
पुलस्त्य उवाच। अहं ते कथयिष्यामि सर्वमेतदशेषतः। यच्छ्रुत्वा न पुनर्मोहं यास्यते नृपसत्तम
येन जायेत प्रेतत्वं येन चास्मात्प्रमुच्यते। प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि
सतां संभाषणे चैव पुण्यतीर्थानुकीर्त्तने। मानवास्तु प्रमुच्यंत आपन्नाः प्रेतयोनिषु
श्रूयते हि पुरा भीष्म ब्राह्मणः संशितव्रतः। पृथुस्सर्वत्र विख्यातः संतोषे च सदा स्थितः
स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित्। जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः
युक्तः क्षमादयाभ्यां च क्षांत्यायुक्तश्च तत्त्ववित्। अहिंसाहितचित्तश्च मार्द्दवे च तथास्थितः
ब्रह्मचर्यसमायुक्तस्तपोयोगसमन्वितः। युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु
परलोकभयेयुक्तो युक्तस्सत्यवचः प्रति। युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने
इष्टापूर्तसमायुक्तो युक्तो द्वंद्वविवर्जने। स्वकर्मविधिसंयुक्तो युक्तः स्वाध्यायकर्मसु
एवं कर्माणि कुर्वंतस्संसारविजिगीषया। बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे सतः