अस्वादितं न चान्येन भक्ष्यार्थे च ददाम्यहम्। अधोभागे च मे नाभेर्वर्तुलौ फलसन्निभौ
भक्षयध्वं हि सहिता लंबौ मे वृषणाविमौ। अनेन चापि भोज्येन परा तृप्तिर्भविष्यति
महाप्रसादं ता लब्ध्वा देव्यस्सर्वास्तदा शिवम्। प्रणिपत्य स्थिताश्शर्व इदं वचनमब्रवीत्
करिष्यंति शुभाचारान्विना हास्येन ये नराः। तेषां धनं पशुः पुत्रा दाराश्चैव गृहादिकम्
भविष्यति मया दत्तं यच्चान्यन्मनसि स्थितम्। हास्येन दीर्घदशना दरिद्राश्च भवंति ते
तस्मान्न निंदा हास्यं च कर्तव्यं हि विजानता। भवत्यो मातरः ख्याता ह्यस्मिन्लोके भविष्यथ
उपहारे नरा ये तु करिष्यंति च कौमुदीम्। चणकान्पूरिकाश्चैव वृषणैः सह पूपकान्
बंधुभिः स्वजनैश्चैव तेषां वंशो न छिद्यते। अपुत्रो लभते पुत्रं धनार्थी लभते धनम्
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः। हंसयुक्तेन यानेन ब्रह्म लोके महीयते
शिवदूति मयाप्येवं तासां दत्तं च भक्षणम्। त्रपाकरं किं भवत्या उक्तोहं तन्निशामय
जयस्व देवि चामुंडे जय भूतापहारिणि। जय सर्वगते देवि कालरात्रि नमोस्तु ते
विश्वमूर्तियुते शुद्धे विरूपाक्षि त्रिलोचने। भीमरूपे शिवे विद्ये महामाये महोदरे
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये। महामारि विचित्रांगि गीतनृत्यप्रिये शुभे
विकरालि महाकालि कालिके पापहारिणि। पाशहस्ते दंडहस्ते भीमहस्ते भयानके
चामुंडे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले। शिवयानप्रिये देवि प्रेतासनगते शिवे
भीमाक्षि भीषणे देवि सर्वभूतभयंकरि। करालि विकराले च महाकालि करालिनि
कालिकरालविक्रांते कालरात्रि नमोस्तु ते। सर्वशस्त्रभृते देवि नमो देवनमस्कृते
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना। तुतोष परमा देवी वाक्यं चैवमुवाच ह
वरं वृणीष्व देवेश यत्ते मनसि वर्तते। रुद्र उवाच। स्तोत्रेणानेन ये देवि स्तोष्यंति त्त्वां वरानने
तेषां त्वं वरदा देवि भव सर्वगता सती। इमं पर्वतमारुह्य यः पूजयति भक्तितः
स पुत्रपौत्रपशुमान्समृद्धिमुपगच्छतु। यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवं
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु। भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम। संवत्सरेण लभतां राज्यं निष्कंटकं पुनः
एषा ज्ञानान्विता शक्तिः शिवदूतीति चोच्यते। य एवं शृणुयान्नित्यं भक्त्या परमया नृप
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात्। यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले1.31.
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते। यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव
न तत्राग्निभयं घोरं सर्वचोरादिसंभवं। यश्चेदं पूजयेद्भक्त्या पुस्तकेपि स्थितं बुधाः
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरं। जायंते बहवः पुत्रा धनं धान्यं वरस्त्रियः
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवंति च। यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत्
भीष्म उवाच। केन कर्मविपाकेन प्रेतत्वं जायते पुनः। केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते