रुद्र उवाच। अवंत्यां तु यदा स्कंदो मया पूर्वं तु भद्रितः। चूडाकर्मणि वृत्ते तु कुमारस्य तदा शुभे
आगत्य मातरो भक्ष्यमपूर्वं तु प्रचक्रिरे। देवलोकाद्देवगणा मातॄणां भोक्तुमागताः
तासां गृहे यदा पूर्वं ब्रह्माद्यास्सुरसत्तमाः। गंधर्वाप्सरसश्चैव यक्षास्सर्वे च गुह्यकाः
मेर्वादयः शिखरिणो गंगाद्याः सरितस्तथा। सर्वे नागा गजास्सिद्धाः पक्षिणोऽसुरसूदनाः
डाकिन्यः सह वेतालैर्वृताः सर्वैर्ग्रहैस्तदा। किमुक्तेनामुना देवि यत्सृष्टं ब्रह्मणा त्विह
तत्सर्वं भोजनं दत्तं स्वेच्छान्नं च नभोगतं। शिवदूत्युवाच। आसां कृतं देहि भोज्यं दुर्लभं यत्त्रिविष्टपे
स्नेहाक्तं सगुडं हृद्यं सुपक्वं परिकल्पितम्। क्वचिन्नान्येन यद्भुक्तमपूर्वं परमेश्वर
एवमुक्तस्तदा सोपि देवदेवो महेश्वरः। भक्ष्यार्थं तास्तदा प्राह पार्वत्याश्चैव सन्निधौ
मया वै साधितं चान्नं प्रकारैर्बहुभिः कृतं। तत्सर्वं च व्ययं यातं न चान्यदिह दृश्यते
भवतीष्वागतास्वद्य किं मया देयमुच्यताम्। अपूर्वं भवतीनां यन्मया देयं विशेषतः
अस्वादितं न चान्येन भक्ष्यार्थे च ददाम्यहम्। अधोभागे च मे नाभेर्वर्तुलौ फलसन्निभौ
भक्षयध्वं हि सहिता लंबौ मे वृषणाविमौ। अनेन चापि भोज्येन परा तृप्तिर्भविष्यति
महाप्रसादं ता लब्ध्वा देव्यस्सर्वास्तदा शिवम्। प्रणिपत्य स्थिताश्शर्व इदं वचनमब्रवीत्
करिष्यंति शुभाचारान्विना हास्येन ये नराः। तेषां धनं पशुः पुत्रा दाराश्चैव गृहादिकम्
भविष्यति मया दत्तं यच्चान्यन्मनसि स्थितम्। हास्येन दीर्घदशना दरिद्राश्च भवंति ते
तस्मान्न निंदा हास्यं च कर्तव्यं हि विजानता। भवत्यो मातरः ख्याता ह्यस्मिन्लोके भविष्यथ
उपहारे नरा ये तु करिष्यंति च कौमुदीम्। चणकान्पूरिकाश्चैव वृषणैः सह पूपकान्
बंधुभिः स्वजनैश्चैव तेषां वंशो न छिद्यते। अपुत्रो लभते पुत्रं धनार्थी लभते धनम्
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः। हंसयुक्तेन यानेन ब्रह्म लोके महीयते
शिवदूति मयाप्येवं तासां दत्तं च भक्षणम्। त्रपाकरं किं भवत्या उक्तोहं तन्निशामय
जयस्व देवि चामुंडे जय भूतापहारिणि। जय सर्वगते देवि कालरात्रि नमोस्तु ते
विश्वमूर्तियुते शुद्धे विरूपाक्षि त्रिलोचने। भीमरूपे शिवे विद्ये महामाये महोदरे
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये। महामारि विचित्रांगि गीतनृत्यप्रिये शुभे
विकरालि महाकालि कालिके पापहारिणि। पाशहस्ते दंडहस्ते भीमहस्ते भयानके
चामुंडे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले। शिवयानप्रिये देवि प्रेतासनगते शिवे
भीमाक्षि भीषणे देवि सर्वभूतभयंकरि। करालि विकराले च महाकालि करालिनि
कालिकरालविक्रांते कालरात्रि नमोस्तु ते। सर्वशस्त्रभृते देवि नमो देवनमस्कृते
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना। तुतोष परमा देवी वाक्यं चैवमुवाच ह
वरं वृणीष्व देवेश यत्ते मनसि वर्तते। रुद्र उवाच। स्तोत्रेणानेन ये देवि स्तोष्यंति त्त्वां वरानने
तेषां त्वं वरदा देवि भव सर्वगता सती। इमं पर्वतमारुह्य यः पूजयति भक्तितः