तिष्ठतिष्ठेति जल्पंतो दैत्यास्ते समुपागताः। ततः प्रववृते युद्धं तासां तेषां महाभयम्
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां। रोषाद्दंडप्रभग्नानां सर्पाणामिव सर्पताम्
शक्तिनिर्भिन्नहृदया गदासंचूर्णितोरसः। कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः। क्षताश्वरथमातंगपादाताः पेतुराहवे
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना। ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे
तया संमोहिता देव्यो देवाश्चापि रणाजिरे। तामस्या मायया देव्या सर्वमन्धंतमोभवत्
ततो देवी महाशक्या तं दैत्यं समताडयत्। तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः
मायायामथ नष्टायां तामस्यां दानवो रुरुः। पातालमाविशत्तूर्णं तत्रापि परमेश्वरी
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता। रुरोस्तु दानवेंद्रस्य भीतस्याग्रे गतस्य च
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता। निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम्
कन्या सैन्येन महता बहुरूपेण भास्वता। देवैस्तुविस्मितैर्दृष्टा चर्ममुंडधरा रुरोः
स्वकीये तपसः स्थाने निविष्टा परमेश्वरी। ततो देव्यो महाभागाः परिवार्य व्यवस्थिताः
याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः। बुभुक्षिता वयं देवि देहि नो भोजनं वरम्
एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनम्। नाध्यगच्छत्तदा तासां भोजनं चिन्तितम्महत्
तदा दध्यौ महादेवं रुद्रं पशुपतिं विभुम्। सोपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः1.31.
उवाच रुद्रस्तां देवीं किं ते कार्यं विवक्षितम्। ब्रूहि देवि महामाये यत्ते मनसि वर्तते
शिवदूत्युवाच। छागमध्ये तु वै देव छागरूपेण वर्तसे। एतास्त्वां भक्षयिष्यन्ति भक्ष्यमीप्सितमादरात्
भक्षार्थमासां देवेश किंचिद्दातुमिहार्हसि। शूलीकुर्वंति मामेता भक्षार्थिन्यो महाबलाः
अन्यथा मामपि बलाद्भक्षयेयुर्बुभुक्षिताः। एवं मां तु समालक्ष्य भक्ष्यं कल्पय सत्वरम्
रुद्र उवाच। शिवदूति ब्रवीम्येकं प्रवृत्तं यद्युगांतरे। गंगाद्वारे दक्षयज्ञो गणैर्विध्वंसितो मम
तत्र यज्ञो मृगो भूत्वा प्रदुद्राव सुवेगवान्। मया बाणेन निर्विद्धो रुधिरेण प्रसेचितः
अजगंधस्तदा भूतो नाम देवैस्तु मे कृतम्। अजगंधस्त्वमेवेति दास्ये चान्यत्तु भोजनम्
एतासां शृणु मे देवि भक्ष्यमेकं मयोचितम्। कथ्यमानं वरारोहे कालरात्रि महाप्रभे
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम्। परिधत्ते स्पृशेद्वापि पुरुषस्य विशेषतः
सभागोस्तु वरारोहे कासांचित्पृथिवीतले। अप्येकवर्षं बालं तु गृहीत्वा तत्र वै बलात्
भुक्त्वा तिष्ठंतु सुप्रीता अपि वर्षशतान्बहून्। अन्याः सूतिगृहे च्छिद्रं गृह्णीयुस्तु ह्यपूजिताः
निवसिष्यंति देवेशि तथा वै जातहारिकाः। गृहे क्षेत्रे तटाके च वाप्युद्यानेषु चैव हि
अत्येषु च रुदंत्यो या स्त्रियस्तिष्ठंति नित्यशः। तासां शरीरगाश्चान्याः काश्चित्तृप्तिमवाप्नुयुः
शिवदूत्य उवाच। कुत्सितं भवता दत्तं प्रजानां परिपीडनम्। न च त्वं बुध्यसे दातुं शंकररस्य विशेषतः
त्रपाकरं यद्भवति प्रजानां परिपीडकम्। न तु तद्युज्यते दातुं तासां भक्ष्यं तु शंकर