पप्रच्छ विस्मयाद्देवी प्रोत्फुल्लांबुजलोचना। पृष्ठतो वो न पश्यामि भयं किंचिदुपागतम्
कथं तु विद्रुता देवाः सर्वे शक्रपुरःसराः। देवा ऊचुः। अयमायाति दैत्येंद्रो रुरुर्भीमपराक्रमः
चतुरंगेण सैन्येन महता परिवारितः। तस्माद्दीना वयं देवीं भवतीं शरणं गताः
देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहास सा। तस्यां हसंत्यां निश्चेरुर्वरांग्यो वदनात्ततः
पाशांकुशधराः सर्वाः पीनोन्नतपयोधराः। सर्वाश्शूलधरा भीमाः सर्वा दंष्ट्राङ्कुशाननाः
आबद्धमकुटाः सर्वाः संदष्टदशनच्छदाः। फूत्काररावैरशिवैस्त्रासयंत्यश्चराचरम्
काश्चिच्छुक्लाम्बरधराः काश्चिच्चित्राम्बरास्तथा। सुनीलवसनाः काश्चिद्रक्तपानातिलालसाः
नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः। ताभिरेवं वृता देवी देवानामभयंकरी
मा भैष्ट देवा भद्रं वो यावद्वदति दानवः। चतुरंगबलोपेतो रुरुस्तावत्समागतः
तं नीलपर्वतवरं देवानां मार्गमार्गणः। देवानामग्रतः सैन्यं दृष्ट्वा देवी समाकुलम्
तिष्ठतिष्ठेति जल्पंतो दैत्यास्ते समुपागताः। ततः प्रववृते युद्धं तासां तेषां महाभयम्
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां। रोषाद्दंडप्रभग्नानां सर्पाणामिव सर्पताम्
शक्तिनिर्भिन्नहृदया गदासंचूर्णितोरसः। कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः। क्षताश्वरथमातंगपादाताः पेतुराहवे
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना। ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे
तया संमोहिता देव्यो देवाश्चापि रणाजिरे। तामस्या मायया देव्या सर्वमन्धंतमोभवत्
ततो देवी महाशक्या तं दैत्यं समताडयत्। तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः
मायायामथ नष्टायां तामस्यां दानवो रुरुः। पातालमाविशत्तूर्णं तत्रापि परमेश्वरी
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता। रुरोस्तु दानवेंद्रस्य भीतस्याग्रे गतस्य च
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता। निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम्
कन्या सैन्येन महता बहुरूपेण भास्वता। देवैस्तुविस्मितैर्दृष्टा चर्ममुंडधरा रुरोः
स्वकीये तपसः स्थाने निविष्टा परमेश्वरी। ततो देव्यो महाभागाः परिवार्य व्यवस्थिताः
याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः। बुभुक्षिता वयं देवि देहि नो भोजनं वरम्
एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनम्। नाध्यगच्छत्तदा तासां भोजनं चिन्तितम्महत्
तदा दध्यौ महादेवं रुद्रं पशुपतिं विभुम्। सोपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः1.31.
उवाच रुद्रस्तां देवीं किं ते कार्यं विवक्षितम्। ब्रूहि देवि महामाये यत्ते मनसि वर्तते
शिवदूत्युवाच। छागमध्ये तु वै देव छागरूपेण वर्तसे। एतास्त्वां भक्षयिष्यन्ति भक्ष्यमीप्सितमादरात्
भक्षार्थमासां देवेश किंचिद्दातुमिहार्हसि। शूलीकुर्वंति मामेता भक्षार्थिन्यो महाबलाः
अन्यथा मामपि बलाद्भक्षयेयुर्बुभुक्षिताः। एवं मां तु समालक्ष्य भक्ष्यं कल्पय सत्वरम्
रुद्र उवाच। शिवदूति ब्रवीम्येकं प्रवृत्तं यद्युगांतरे। गंगाद्वारे दक्षयज्ञो गणैर्विध्वंसितो मम