जिगीषुः सैन्यसंवीतो देवैर्वैरमरोचयत्। उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृधेति वेगात्
अनेक नाग ग्रह मीनजुष्टमाप्लावयत्पर्वतसानुदेशान्। अंतःस्थितानेकसुरारिसंघं विचित्रवर्मायुधचित्रशोभम्
भीमं बलं चलितं चारुयोधं विनिर्ययौ सिंधुजलाद्विशालम्। तत्र द्विपा दैत्यभठाभ्युपेताः सयानघंटाश्च समृद्धियुक्ताः
विनिर्ययुः स्वाकृतिभिर्झषाणां समत्वमुच्चैः खलु दर्शयंतः। अश्वास्तथा कांचनसूत्रनद्धा रोहीतमत्स्या इव ते जलांते
व्यवस्थितास्तैः सममेव तूर्णं विनिर्ययुर्लक्षशः कोटिशश्च। तथा रविस्यंदनतुल्यवेगाः सचक्रदंडाक्षतवेणुयुक्ताः
रथाश्च यंत्रोपरिपीडितांगाश्चलत्पताकाः स्वनितं विचक्रुः। तथैव योधाः स्थगितास्तरीभिस्तितीर्षवस्ते प्रवरास्त्रपाणयः
रणेरणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशं। देवेषु वै रणे तेषु विद्रुतेषु विशेषतः
असुरास्सर्वदेवानामन्वधावंस्ततस्ततः। ततो देवगणाः सर्वे द्रवंतो भयविह्वलाः
नीलं गिरिवरं जग्मुर्यत्र देवी स्वयं स्थिता। रौद्री तपोन्विता धन्या शांभवी शक्तिरुत्तमा
संहारकारिणी देवी कालरात्रीति यां विदुः। सा तु दृष्ट्वा तदा देवान्भयत्रस्तान्विचेतसः
पप्रच्छ विस्मयाद्देवी प्रोत्फुल्लांबुजलोचना। पृष्ठतो वो न पश्यामि भयं किंचिदुपागतम्
कथं तु विद्रुता देवाः सर्वे शक्रपुरःसराः। देवा ऊचुः। अयमायाति दैत्येंद्रो रुरुर्भीमपराक्रमः
चतुरंगेण सैन्येन महता परिवारितः। तस्माद्दीना वयं देवीं भवतीं शरणं गताः
देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहास सा। तस्यां हसंत्यां निश्चेरुर्वरांग्यो वदनात्ततः
पाशांकुशधराः सर्वाः पीनोन्नतपयोधराः। सर्वाश्शूलधरा भीमाः सर्वा दंष्ट्राङ्कुशाननाः
आबद्धमकुटाः सर्वाः संदष्टदशनच्छदाः। फूत्काररावैरशिवैस्त्रासयंत्यश्चराचरम्
काश्चिच्छुक्लाम्बरधराः काश्चिच्चित्राम्बरास्तथा। सुनीलवसनाः काश्चिद्रक्तपानातिलालसाः
नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः। ताभिरेवं वृता देवी देवानामभयंकरी
मा भैष्ट देवा भद्रं वो यावद्वदति दानवः। चतुरंगबलोपेतो रुरुस्तावत्समागतः
तं नीलपर्वतवरं देवानां मार्गमार्गणः। देवानामग्रतः सैन्यं दृष्ट्वा देवी समाकुलम्
तिष्ठतिष्ठेति जल्पंतो दैत्यास्ते समुपागताः। ततः प्रववृते युद्धं तासां तेषां महाभयम्
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां। रोषाद्दंडप्रभग्नानां सर्पाणामिव सर्पताम्
शक्तिनिर्भिन्नहृदया गदासंचूर्णितोरसः। कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः। क्षताश्वरथमातंगपादाताः पेतुराहवे
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना। ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे
तया संमोहिता देव्यो देवाश्चापि रणाजिरे। तामस्या मायया देव्या सर्वमन्धंतमोभवत्
ततो देवी महाशक्या तं दैत्यं समताडयत्। तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः
मायायामथ नष्टायां तामस्यां दानवो रुरुः। पातालमाविशत्तूर्णं तत्रापि परमेश्वरी
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता। रुरोस्तु दानवेंद्रस्य भीतस्याग्रे गतस्य च
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता। निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम्