ब्रह्मोवाच। जरत्कारुरिति ख्यातो भविता ब्रह्मवित्तमः। जरत्कन्या तस्य देया तस्यामुत्पत्स्यते सुतः
रक्षां कर्ता स वो विप्रो भवतां कुलपावनः। तथा करोमि नागानां समयं मनुजैः सह
तदेकमनसः सर्वे शृणुध्वं मम शासनम्। सुतलं वितलं चैव तृतीयं च तलातलम्
दत्तं च त्रिप्रकारं वो गृहं तत्र गमिष्यथ। तत्र भोगान्बहुविधान्भुंजाना मम शासनात्
तिष्ठध्वं सप्तमं यावत्कालं तं तु पुनःपुनः। ततो वैवस्वतस्यादौ काश्यपेयो भविष्यति
दायादः सर्वदेवानां सुपर्णस्सर्पभक्षकः। तदा प्रसूतिः सर्पाणां दग्धा वै चित्रभानुना
भवतां चैव सर्वेषां भविष्यति न संशयः। ये ये क्रूरा भोगिनो दुर्विनीतास्तेषामंतो भाविता नान्यथैतत्
कालव्याप्तं भक्षयध्वं च सत्वं तथापकारे चकृते मनुष्यम्। मंत्रौषधैर्गारुडैश्चैव तंत्रैर्बंधैर्जुष्टा मानवा ये भवंति
तेभ्यो भीतैर्वर्तितव्यं न चान्यच्चित्ते कार्यं चान्यथा वो विनाशः। इतीरिते ब्रह्मणा वै भुजंगा जग्मुः स्थानं सुतलाख्यं हि सर्वे
तस्थुर्भोगान्भुंजमानाश्च सर्वे रसातले लीलया संस्थितास्ते। एवं शापं तुते लब्ध्वाप्रसादं च चतुर्मुखात्
तस्थुः पातालनिलये मुदितेनांतरात्मना। ततः कालांत रेभूते पुनरेवं व्यचिंतयन्
भविता भरतो राजा पांडवेयो महायशाः। अस्माकं तु क्षयकरो दैवयोगेन केनचित्
कथं त्रिभुवने नाथः सर्वेषां च पितामहः। सृष्टिकर्ता जगद्वंद्यः शापमस्मासु दत्तवान्
देवं विरंचिनं त्यक्त्वा गतिरन्या न विद्यते। वैराजे भवनश्रेष्ठे तत्र देवः स तिष्ठति
स देवः पुष्करस्थो वै यज्ञं यजति सांप्रतम्। गत्वा प्रसादयामस्तं वरं तुष्टः प्रदास्यति1.31.
एवं विचिंत्य ते सर्वे नागा गत्वा च पुष्करम्। यज्ञपर्वतमासाद्य शैलभित्तिमुपाश्रिताः
दृष्ट्वा नागांस्तथा श्रान्तान्वारिधाराश्च शीतलाः। उदङ्मुखा वै निष्क्रांतास्सर्वेषां तु सुखप्रदाः
नागतीर्थं ततो जातं पृथिव्यां भरतर्षभ। नागकुंडं च वै केचित्सरितं चापरेऽब्रुवन्
पुण्यं तत्सर्वतीर्थानां सर्पाणां विषनाशनम्। मज्जन्ति तत्र ये मर्त्या अधिश्रावण पंचमि
न तेषां तु कुले सर्पाः पीडां कुर्वन्ति कर्हिचित्। श्राद्धं पितॄणां ये तत्र करिष्यंति नरा भुवि
ब्रह्मा तेषां परं स्थानं दास्यते नात्र संशयः। नागानां तु भयं ज्ञात्वा ब्रह्मा लोकपितामहः
पूर्वोक्तं तु पुनर्वाक्यं नागानश्रावयत्तदा। पंचमी सा तिथिर्धन्या सर्वपापहरा शुभा
यतोऽस्यामेव सुतिथौ नागानां कार्यमुद्धृतम्। एतस्यां सर्वतो यस्तु कट्वम्लं परिवर्जयेत्
क्षीरेण स्नापयेन्नागांस्तस्य ते यांति मित्रताम्। भीष्म उवाच। शिवदूती यथा जाता येन चैव निवेशिता
तन्मे सर्वं यथातत्त्वं भवान्शंसितुर्महति। पुलस्त्य उवाच। शिवा नीलगिरिं प्राप्ता तपसे धृतमानसा
रौद्री जटोद्भवा शक्तिस्तस्याः शृणु नृप व्रतम्। तपः कृत्वा चिरं कालं ग्रसिष्याम्यखिलं जगत्
एवमुद्दिश्य पंचाग्निं साधयामास भामिनी। तस्याः कालांतरे देव्यास्तपंत्यास्तप उत्तमम्
रुरुर्नाममहातेजा ब्रह्मदत्तवरोऽसुरः। समुद्रमध्ये रत्नाख्यं पुरमस्ति महाधनम्
तत्रातिष्ठत्स दैत्येंद्रस्सर्वदेवभयंकरः। अनेक शतसाहस्र कोटिकोटिशतोत्तमैः
असुरैरर्चितः श्रीमान्द्वितीयो नमुचिर्यथा। कालेन महता सोऽथ लोकपालपुरं ययौ