तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद। पापक्षयकरं ह्येतच्छ्रोतव्यं भूतिमिच्छता
पुलस्त्य उवाच। प्रश्नभारस्त्वया राजन्कौतुकादेव कीर्तितः। कथयामि हि तत्सर्वं यथाभूतं नृपोत्तम
विष्णोः पदानुषंगेण बंधनं बाष्कलेरिह। श्रुतं तद्भवता सर्वं मया ते परिकीर्तितं
भूयोपि विष्णुना भीष्म प्राप्ते वैवस्वतेंतरे। त्रैलोक्यं बलिनाक्रांतं विष्णुना प्रभविष्णुना
गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि। भूयोपि देवदेवेन भूमेः प्रक्रमणं कृतम्
प्रादुर्भावो वामनस्य तथाभूतो नराधिप। पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः
उत्पत्तिरेषा ते सर्वा कथिता कुरुनंदन। नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत
अनंतो वासुकिश्चैव तक्षकश्च महाबलः। कर्कोटकश्च नागेंद्रः पद्मश्चान्यः सरीसृपः
महापद्मस्तथा शंखः कुलिकश्चापराजितः। एते कश्यपदायादा एतैरापूरितं जगत्
एतेषां तु प्रसूत्या तु इदमापूरितं जगत्। कुटिलाभीमकर्माणस्तीक्ष्णास्याश्च विषोल्बणाः
दष्ट्वा मंदांश्चमनुजान्कुर्युर्भस्मक्षणात्तु ते। तद्दर्शनाद्भवेन्नाशो मनुष्याणां नराधिप
अहन्यहनि जायेत क्षयः परमदारुणः। आत्मनस्तु क्षयं दृष्ट्वा प्रजास्सर्वास्समंततः
जग्मुः शरण्यं शरणं ब्रह्माणं परमेश्वरं। इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते
ऊचुः कमलजं दृष्ट्वा पुराणं ब्रह्मसंज्ञकम्। प्रजा ऊचुः। देवदेवेश लोकानां प्रसूते परमेश्वर
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजगानां महात्मनाम्। दिनेदिने भयं देव पश्यामः कृपणा भृशम्
मनुष्यपशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेत्। त्वया सृष्टिः कृता देव क्षीयते तु भुजंगमैः
एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह। ब्रह्मोवाच। अहं रक्षां विधास्यामि भवतीनां न संशयः
व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः। एवमुक्ते प्रजाः सर्वा ब्रह्मणाऽव्यक्तमूर्तिना
आजग्मुः परमप्रीताः स्तुत्वा चैव स्वयंभुवम्। प्रयातासु प्रजास्वेवं तानाहूय भुजंगमान्
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा। ब्रह्मोवाच। अहन्यहनि भूतानि भक्ष्यंते वै दुरात्मभिः
नश्यंति तूरगैर्दष्टा मनुष्याः पशवस्तथा। यस्मान्मत्प्रभवान्नित्यं क्षयं नयथ मानुषान्
अतोन्यस्मिन्भवे भूयान्ममकोपात्सुदारुणात्। भवतां हि क्षयो घोरो भावि वैवस्वतेंतरे
तथान्यः सोमवंशीयो राजा वै जनमेजयः। धक्ष्यते सर्पसत्रेण प्रदीप्ते हव्यवाहने
मातृष्वसुश्च तनयांस्तार्क्ष्यो वो भक्षयिष्यति। एवं वो भविता नाशः सर्वेषां दुष्टचेतसाम्
शप्त्वा कुलसहस्रं तु यावदेकं कुलं स्थितम्। एवमुक्ते तु वेपंतो ब्रह्मणा भुजगोत्तमाः
निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा। भगवन्कुटिला जातिरस्माकं भूतभावन
विषोल्बणत्वं क्रूरत्वं दंदशूकत्वमेव च। संपादितं त्वया देव इदानीं शपसे कथं
ब्रह्मोवाच। यदि नाम मया सृष्टा भवंतः कुटिलाशयाः। ततः किं बहुना नित्यं भक्षयध्वं गतव्यथाः
नागा ऊचुः। मर्यादां कुरु देवेश स्थानं चैव पृथक्पृथक्। मनुष्याणां तथास्माकं समयं देव कारय
शापो यो भवता दत्तो मनुष्यो जनमेजयः। नाशं नः सर्पसत्रेण उल्बणं च करिष्यति