विष्णोः पदानामेषा ते उत्पत्तिः कथिता नृप। यां श्रुत्वा तु नरो लोके सर्वपापैः प्रमुच्यते
दुःस्वप्नं दुर्विचिंत्यं च दुःष्करं दुःष्कृतानि च। क्षिप्रं हि नाशमायांति दृष्टे विष्णुपदत्रये
युगानुक्रमशो दृष्ट्वा पापिनो जंतवस्तथा। सूक्ष्मता दर्शिता भीष्म विष्णुना पददर्शने1.30.
यस्त्वारोहति तस्मिंस्तु मौनवान्मानवो भुवि। कृत्वा त्रिपुष्करी यात्रामश्वमेधफलं व्रजेत्
मुच्यते सर्वपापैश्च मृतो विष्णुपुरं व्रजेत्
भीष्म उवाच। भगवन्महदाश्चर्यं बाष्कलेर्बंधनं हि यत्। कृतं त्रिविक्रमं रूपं यदा संयमितो बलि
एतन्मया श्रुतं पूर्वं कथ्यमानं द्विजोत्तमैः। पाताले वसतेद्यापि वैरोचनसुतो बलि
नागतीर्थं यथाभूतं पिशाचानां तु संभवम्। शिवदूती कथं चात्र केनेयं मंगलीकृता
अंतरिक्षे पुष्करं तु केन नीतं महामुने। एतदाचक्ष्व मे सर्वं यथा बाष्कलिबंधनम्
भूमिप्रक्रमणं पूर्वं कृतं देवेन विष्णुना। द्वितीये कारणं किं च येन देवश्चकार ह
तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद। पापक्षयकरं ह्येतच्छ्रोतव्यं भूतिमिच्छता
पुलस्त्य उवाच। प्रश्नभारस्त्वया राजन्कौतुकादेव कीर्तितः। कथयामि हि तत्सर्वं यथाभूतं नृपोत्तम
विष्णोः पदानुषंगेण बंधनं बाष्कलेरिह। श्रुतं तद्भवता सर्वं मया ते परिकीर्तितं
भूयोपि विष्णुना भीष्म प्राप्ते वैवस्वतेंतरे। त्रैलोक्यं बलिनाक्रांतं विष्णुना प्रभविष्णुना
गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि। भूयोपि देवदेवेन भूमेः प्रक्रमणं कृतम्
प्रादुर्भावो वामनस्य तथाभूतो नराधिप। पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः
उत्पत्तिरेषा ते सर्वा कथिता कुरुनंदन। नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत
अनंतो वासुकिश्चैव तक्षकश्च महाबलः। कर्कोटकश्च नागेंद्रः पद्मश्चान्यः सरीसृपः
महापद्मस्तथा शंखः कुलिकश्चापराजितः। एते कश्यपदायादा एतैरापूरितं जगत्
एतेषां तु प्रसूत्या तु इदमापूरितं जगत्। कुटिलाभीमकर्माणस्तीक्ष्णास्याश्च विषोल्बणाः
दष्ट्वा मंदांश्चमनुजान्कुर्युर्भस्मक्षणात्तु ते। तद्दर्शनाद्भवेन्नाशो मनुष्याणां नराधिप
अहन्यहनि जायेत क्षयः परमदारुणः। आत्मनस्तु क्षयं दृष्ट्वा प्रजास्सर्वास्समंततः
जग्मुः शरण्यं शरणं ब्रह्माणं परमेश्वरं। इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते
ऊचुः कमलजं दृष्ट्वा पुराणं ब्रह्मसंज्ञकम्। प्रजा ऊचुः। देवदेवेश लोकानां प्रसूते परमेश्वर
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजगानां महात्मनाम्। दिनेदिने भयं देव पश्यामः कृपणा भृशम्
मनुष्यपशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेत्। त्वया सृष्टिः कृता देव क्षीयते तु भुजंगमैः
एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह। ब्रह्मोवाच। अहं रक्षां विधास्यामि भवतीनां न संशयः
व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः। एवमुक्ते प्रजाः सर्वा ब्रह्मणाऽव्यक्तमूर्तिना
आजग्मुः परमप्रीताः स्तुत्वा चैव स्वयंभुवम्। प्रयातासु प्रजास्वेवं तानाहूय भुजंगमान्
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा। ब्रह्मोवाच। अहन्यहनि भूतानि भक्ष्यंते वै दुरात्मभिः