भूमेः पदत्रयार्थित्वं द्विजेनानेन मे कृतम्। एतावता त्वयं चार्थी मयाप्यस्य कृते भवान्
दनुपुत्रो याचितोसि वरमेतत्प्रदीयताम्। बाष्कलिरुवाच। पदत्रयं वामनाय देवराज प्रतीच्छ मे
तत्र त्वं सुचिरं कालं सुखी सुरपते वस। एवमुक्त्वा बाष्कलिना वामनाय पदत्रयम्
तोयपूर्वं तदा दत्तं प्रीयतां मे हरिः स्वयम्। दत्ते तु दानवेंद्रेण त्यक्त्वा रूपं च वामनम्
हरिराचक्रमे लोकान्देवानां हितकाम्यया। यज्ञपर्वतमासाद्य गत्वा चैव उदङ्मुखः
देवस्य वामचरणे निविष्टो दानवालयः। तत्र क्रमं स प्रथमं ददौ सूर्ये जगत्पतिः
द्वितीयं च ध्रुवे देवस्तृतीयेन च पार्थिव। ब्रह्मांडस्ताडितस्तेन देवेनाद्भुतकर्मणा
अंगुष्ठाग्रेण भिन्नेंडे जलं भूरि विनिःसृतम्। प्लावयित्वा ब्रह्मलोकान्सर्वान्लोकाननुक्रमात्
ध्रुवस्थानं सूर्यलोकं प्लाव्य तं यज्ञपर्वतम्। प्रविष्टा पुष्करं धारा धौत्वा विष्णुपदानि सा
पदानि यानि जातानि वैष्णवानि धरातले। तत्राश्रमे तु यो गत्वा स्नानं वाप्यां समाचरेत्
अश्वमेधफलं तस्य दर्शनादेव जायते। एकविंशगणोपेतो वैकुंठे वासमाप्नुयात्
भुक्त्वा तु विपुलान्भोगान्कल्पानां तु शतत्रयम्। तदंते जायते राजा सार्वभौमः क्षिताविह
तोयधारा तु सा भीष्म अंगुष्ठाग्राद्विनिःसृता। नदी सा वैष्णवी प्रोक्ता विष्णुपादसमुद्भवा
अनेन कारणेनाभूद्गंगा विष्णुपदी नृप। यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
अंगुष्ठाग्रक्षतादंडाद्यत्प्रविष्टं जलं शुभम्। प्राप्तं देवनदीत्वं तु यातु विष्णुपदी नदी
देवनद्या तया व्याप्तं ब्रह्मांडं सचराचरम्। विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया
स बाष्कलिर्वामनेन उक्तः पूरय मे क्रमान्। अधोमुखस्तदा जात उत्तरं नास्य विंदति
मौनीभूतं तु तं दृष्ट्वा पुरोधा वाक्यमब्रवीत्। स्वाभाविकी दानशक्तिर्न तु स्रष्टुं वयं क्षमाः
यावतीयं धरा देव सा दत्तानेन ते प्रभो। उक्तो बाष्कलिना विष्णुर्यावन्मात्रा वसुंधरा
या सृष्टा भवता पूर्वं सा मया न च गोपिता। अल्पाभूमिर्भवान्दीर्घो न तु सृष्टेरहं क्षमः
इच्छाशक्तिः प्रभवति प्रभोस्ते देव सर्वदा। निरुत्तरस्तदा विष्णुर्मत्वा तं सत्यवादिनम्
ब्रूहि दानवमुख्य त्वं कं ते कामं करोम्यहम्। मम हस्तगतं तोयं त्वया दत्तं तु दानव
तेन त्वं वरयोग्योसि वराणां भाजनं शुभं। दास्येहं भवतः काममर्थीयेन वृणुष्व ह
विज्ञप्तो हि तदा तेन देवदेवो जनार्दनः। भक्तिं वृणोमि देवेश त्वद्धस्तान्मरणं हि मे
व्रजामि श्वेतद्वीपं ते दुर्लभं तु तपस्विनाम्। आहैवमुक्ते विष्णुस्तं तिष्ठस्वैव युगांतरम्
वाराहरूपी यदाहं प्रवेक्ष्यामि धरातलम्। तदा हनिष्येहं त्वां तु मदग्रे च यदैष्यसि
उक्तोथ दानवस्तेन अपासर्प्पत्तदग्रतः। वामनेन समाक्रांताः सर्वे लोकास्तदा नृप
असुरैस्तैस्तदा त्यक्तं देवानां सत्यभाषणम्। देवो हृत्वा तु त्रैलोक्यं जगामादर्शनं विभुः
पातालनिलयश्चापि सुखमास्ते स बाष्कलि। शक्रोपि पालयामास विपश्चिद्भुवनत्रयम्
अयं त्रैविक्रमो नाम प्रादुर्भावो जगद्गुरोः। गंगासंभवसंयुक्तस्सर्वकल्मषनाशनः