प्रतिज्ञापालनं कार्यं सतां धर्मः सनातनः। यद्येष भगवान्विष्णुर्नास्ति धन्यतरो मया
गृह्य प्रतिग्रहं मत्तो यदि देवान्बुभूषति। भूयोपि धन्यतां नीतो देवेनानेन वै गुरो
यं योगिनो ध्यानयुक्ता ध्यायमाना हि दर्शनम्। न लभंते तथा विप्रास्सोयं दृष्टो मयाद्य वै
दानानि ये प्रयच्छंति सकुशोदकपाणिना। प्रीयतां भगवान्विष्णुः परमात्मा सनातनः
एवमुक्ते तु वचने अपवर्गस्य भागिनः। यदत्र कार्यकरणे विकल्पो मे बभूव ह
उपदिष्टोस्मि भवता बालत्वे चावधारितम्। शत्रावपि गृहायाते मास्त्वदेयं तु किंचन
एतदेव विचिंत्याहं प्राणानपि स्वकान्गुरो। वामनस्य प्रदास्यामि शक्रस्यापि त्रिविष्टपम्
अपीडाकारि यद्दानं तद्दानमिह दीयते। पीडाकारि च यद्दानं तद्दानं समलं स्मृतम्
एतच्छ्रुत्वा गुरुस्तत्र त्रपयाधोमुखः स्थितः। बाष्कलिरुवाच। अर्थिता भवतो देव देया सर्वा धरा मया
त्रपाकरं भवेन्मह्यं यदस्य भूपदत्रयम्। इंद्र उवाच। सत्यमेतद्दानवेन्द्र यदुक्तं भवता हि मे
भूमेः पदत्रयार्थित्वं द्विजेनानेन मे कृतम्। एतावता त्वयं चार्थी मयाप्यस्य कृते भवान्
दनुपुत्रो याचितोसि वरमेतत्प्रदीयताम्। बाष्कलिरुवाच। पदत्रयं वामनाय देवराज प्रतीच्छ मे
तत्र त्वं सुचिरं कालं सुखी सुरपते वस। एवमुक्त्वा बाष्कलिना वामनाय पदत्रयम्
तोयपूर्वं तदा दत्तं प्रीयतां मे हरिः स्वयम्। दत्ते तु दानवेंद्रेण त्यक्त्वा रूपं च वामनम्
हरिराचक्रमे लोकान्देवानां हितकाम्यया। यज्ञपर्वतमासाद्य गत्वा चैव उदङ्मुखः
देवस्य वामचरणे निविष्टो दानवालयः। तत्र क्रमं स प्रथमं ददौ सूर्ये जगत्पतिः
द्वितीयं च ध्रुवे देवस्तृतीयेन च पार्थिव। ब्रह्मांडस्ताडितस्तेन देवेनाद्भुतकर्मणा
अंगुष्ठाग्रेण भिन्नेंडे जलं भूरि विनिःसृतम्। प्लावयित्वा ब्रह्मलोकान्सर्वान्लोकाननुक्रमात्
ध्रुवस्थानं सूर्यलोकं प्लाव्य तं यज्ञपर्वतम्। प्रविष्टा पुष्करं धारा धौत्वा विष्णुपदानि सा
पदानि यानि जातानि वैष्णवानि धरातले। तत्राश्रमे तु यो गत्वा स्नानं वाप्यां समाचरेत्
अश्वमेधफलं तस्य दर्शनादेव जायते। एकविंशगणोपेतो वैकुंठे वासमाप्नुयात्
भुक्त्वा तु विपुलान्भोगान्कल्पानां तु शतत्रयम्। तदंते जायते राजा सार्वभौमः क्षिताविह
तोयधारा तु सा भीष्म अंगुष्ठाग्राद्विनिःसृता। नदी सा वैष्णवी प्रोक्ता विष्णुपादसमुद्भवा
अनेन कारणेनाभूद्गंगा विष्णुपदी नृप। यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
अंगुष्ठाग्रक्षतादंडाद्यत्प्रविष्टं जलं शुभम्। प्राप्तं देवनदीत्वं तु यातु विष्णुपदी नदी
देवनद्या तया व्याप्तं ब्रह्मांडं सचराचरम्। विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया
स बाष्कलिर्वामनेन उक्तः पूरय मे क्रमान्। अधोमुखस्तदा जात उत्तरं नास्य विंदति
मौनीभूतं तु तं दृष्ट्वा पुरोधा वाक्यमब्रवीत्। स्वाभाविकी दानशक्तिर्न तु स्रष्टुं वयं क्षमाः
यावतीयं धरा देव सा दत्तानेन ते प्रभो। उक्तो बाष्कलिना विष्णुर्यावन्मात्रा वसुंधरा
या सृष्टा भवता पूर्वं सा मया न च गोपिता। अल्पाभूमिर्भवान्दीर्घो न तु सृष्टेरहं क्षमः