अर्थित्वेन मदीयेन स्वकुले बांधवेपि च। गृहायाते मयि तथा यद्योग्यं तत्समाचर
यदि ते रुचितं वीर दानवेंद्र महाद्युते। तदस्मै दीयतां शीघ्रं वामनाय महात्मने
बाष्कलिरुवाच। देवेंद्र स्वागतं तेऽस्तु स्वस्ति प्राप्नुहि मा चिरम्। त्वं समीक्षस्वधात्मानं सर्वेषां च परायणम्
त्वयि भारं समावेश्य सुखमास्ते पितामहः। ध्यानधारणयायुक्तश्चिंतयानः परं पदम्
संग्रामैर्बहुभिः खिन्नो जगच्चिंतामपास्य तु। क्षीराब्धिद्वीपमाश्रित्य सुखं स्वपिति केशवः
अन्ये च दानवाः सर्वे बलिनः सायुधास्त्वया। असहायेनैव शक्र सर्वेपि विनिपातिताः
आदित्या द्वादशैवेह रुद्रास्त्वेकादशापि वा। अश्विनौ वसवश्चैव धर्मश्चैव सनातनः
त्वद्बाहुबलमाश्रित्य त्रिदिवे मखभागिनः। त्वया क्रतुशतैरिष्टं समाप्तवरदक्षिणैः
त्वया च घातितो वृत्रो नमुचिः पाकशासन। त्वदाज्ञाकारिणा पूर्वं विष्णुना प्रभविष्णुना
हिरण्यकशिपोर्भ्राता हिरण्याक्षोपि घातितः। हिरण्यकशिपुर्योत्र जङ्घे चारोप्य घातितः
वज्रपाणिनमायांतमैरावणशिरोगतम्। संग्रामभूमौ दृष्ट्वा त्वां सर्वे नश्यंति दानवाः
ये त्वया विजिताः पूर्वं दानवा बलवत्तराः। सहस्रांशेन तत्तुल्यो न भवामि कथंचन
एवंविधोऽसि देवेंद्र मम का गणना भवेत्। मां समुद्धर्तुकामेन त्वयैवागमनं कृतम्
करिष्यामि न संदेहो दास्ये प्राणानपि ध्रुवम्। किमर्थं देवराजोक्ता भूमिरेषा त्वया हि मे
इमे दाराः सुता गावो यच्चान्यद्विद्यते वसु। त्रैलोक्यराज्यमखिलं विप्रस्यास्य प्रदीयताम्
अपकीर्तिर्भवेन्मह्यं पूर्वेषां च न संशयः। गृहायातस्य शक्रस्य दत्तं बाष्कलिना न तु
अन्योपि योर्थी मे प्राप्तः समे प्रियतरः सदा। भवानत्र विशेषेण विचारं मा कृथाः क्वचित्
बृहत्त्रपा मे देवेंद्र यद्भूमेस्तु पदत्रयम्। ब्राह्मणस्य विशेषेण प्रार्थितं तु त्वया विभो
दास्ये ग्रामवरानस्य भवतस्तु त्रिविष्टपम्। अश्वान्गजान्भूमिधनं स्त्रियश्चोद्भिन्नचूचुकाः
यासां दर्शनमात्रेण वृद्धोपि तरुणायते। ताः स्त्रियो वसुधां चैतां वामनस्य प्रतिग्रहम्
प्रतिदास्यामि देवेन्द्र प्रसादः क्रियतां हि मे। एतावदुक्ते वचने तदा बाष्कलिना नृप
पुरोधास्तूशना प्राह दानवेंद्रं तदा वचः। भवान्राजा दानवेंद्र ऐश्वर्येष्टविधे स्थितः
युक्तायुक्तं न जानासि देयं कस्य मया क्वचित्। मंत्रिभिः सुसमालोच्य युक्तायुक्तं परीक्ष्य च 1.30.
प्राप्तं त्रैलोक्यराज्यत्वं जित्वा देवान्सवासवान्। वाक्यस्यास्यावसानेव भवान्प्राप्स्यति बंधनं
य एष वामनो राजन्विष्णुरेव सनातनः। नास्य वै भवता देयं पिता ते घातितः स्वयं
अयं ते पितृहा प्राप्तो मातृहा बंधुघातकः। वंशोच्छेदकरस्तुभ्यं भूतश्चैव भविष्यति
न चैष धर्मं जानाति शक्रादीनां हिते रतः। मायाविना दानवा ये मायया येन निर्जिताः
मायया ब्राह्मणं रूपं वामनं च प्रदर्शितम्। अत्र किं बहुनोक्तेन नास्य देयं तु किंचन
मक्षिकापादमात्रं तु भूमिरस्य प्रतिग्रहः। विनाशमेष्यसि क्षिप्रं सत्यंसत्यं मया श्रुतम्
गुरुणाप्येवमुक्तस्तु भूयो वाक्यमथाब्रवीत्। धर्मार्थिना मया सर्वं प्रतिज्ञातं गुरो त्विदम्