प्रसादयन्दैत्यवरं महात्मा पुरंदरस्तं तु दनुप्रधानं। तेजोयुक्तं दानवं तं तपंतमिव भास्करं
त्रैलोक्यधारणे शक्तं विस्मितः सोऽभवत्तदा। इंद्रं पुरागतं दृष्ट्वा दानवेंद्राय पार्थिव
इदमूचुस्तदागत्वा दानवा युद्धदुर्मदाः। आश्चर्यमिति वै कृत्वा इंद्रोभ्येति पुरीं तव1.30.
एकाकी द्विजमुख्येन वामनेन सह प्रभो। अस्माभिर्यदनुष्ठेयं सांप्रतं नो वदस्व राट्
दानवानब्रवीत्सर्वान्पुरे तिष्ठत संकुलं। प्रवेश्यतां देवराजः पूज्यः स तु ममाद्य वै
एतस्मिन्नेव काले तु वामनः स च वासवः। आगतौ दनुनाथेन प्रेम्णा चैवावलोकितौ
कृतार्थं मन्यतात्मानं प्रणिपातपुरःसरम्। उवाच वचनं राजा दानवानां धुरंधरः
अद्य वै त्रिषु लोकेषु नास्ति धन्यतरो मया। योहं श्रियावृतः शक्रं पश्यामि गृहमागतम्
अर्थित्वकाम्यया यस्तु मामयं याचयिष्यति। गृहागतस्य तस्याहं दास्ये प्राणानपि ध्रुवम्
दारान्पुत्रांस्तथागारं त्रैलोक्ये का कथा मम। आगत्य संमुखं तस्य अंकमानीय सादरम्
परिष्वज्याभिनन्द्यैनं गृहं प्रावेशयत्स्वकम्। तस्य स्वागतमर्घ्याद्यैः कृत्वा पूजां प्रयत्नतः
अद्य मे सफलं जन्म पूर्णाः सर्वे मनोरथाः। यस्त्वां पश्यामि शक्राद्य स्वयमेव गृहागतम्
ख्याप्योहं दनुमुख्यानां देवराज त्वया कृतः। आगच्छता मम गृहं पुण्यता तु परा हि मे
अग्निष्टोमादिभिर्यज्ञैस्सम्यगिष्टैस्तु यत्फलम्। तत्फलं समवाप्येत त्वयि दृष्टे पुरंदर
यत्फलं भूमिदानेन गवां दानेन ऋत्विजे। ममाद्य तत्फलं भूतमथवा राजसूयकम्
नाल्पेन तपसा लभ्यं दर्शनं तव वासव। एवं गेहे मया यत्ते प्रियं कार्यं तदुच्यताम्
विकल्पोऽन्यो न भवता हृदि कार्यः कथंचन। कृतं च तद्विजानीया यद्यदि स्यात्सुदुष्करं
पुण्योहं पुण्यतां प्राप्तो दर्शनात्तव शत्रुहन्। यत्ते देव वरैर्वंद्यौ वंदितौ चरणौ मया
किमागमनकृत्यं ते वद सर्वं मयि प्रभो। अत्याश्चर्यमिदं मन्ये तवागमन कारणं
इंद्र उवाच। जानेहं दनुमुख्यानां प्रधानं त्वां तु बाष्कले। नात्याश्चर्यमिदं भाति त्वयि दृष्टेऽसुरोत्तम
विमुखा नार्थिनो यांति भवतो गृहमागताः। अर्थिनां कल्पवृक्षोसि दाता चान्यो न विद्यते
प्रभायां सूर्यतुल्योसि गांभीर्ये सागरोपमः। सहिष्णुत्वे धरा चैव श्रिया नारायणोपमः
ब्राह्मणः कश्यपकुले जातोयं वामनः शुभे। प्रार्थितोहमनेनैवं भूमेर्देहि पदत्रयं
ममाग्निशरणार्थाय यत्र कुर्यां मखं त्वहं। तदस्य कारणं कृत्वा अर्थितैषा मम प्रभो
लोकत्रयं मेऽपहृतं त्वया विक्रम्य बाष्कले। निर्वृत्तिको निर्धनोस्मि यद्दित्से न तदस्ति मे
भवंतं याचयिष्यामि परार्थेनापि चात्मना। अर्थित्त्वेन ममाप्यस्य यद्योग्यं तत्समाचर
जातोसि काश्यपे च त्वं वंशे वंशविवर्द्धनः। दित्यास्त्वं गर्भसंभूतः पिता त्रैलोकपूजितः
एवंभूतमहं ज्ञात्वा तेन त्वां याचयाम्यहम्। अस्याग्निशरणार्थाय दीयतां भू पदत्रयम्
अतीव ह्रस्वगात्रस्य वामनस्यास्य दानव। भूमिभागे च पारक्ये दातुं न त्वहमुत्सहे
एतदेव मया दत्तं यद्भवानर्थितोसि मे। गुरवो यदि मन्यंते मंत्रिणो वा पदत्रयम्