जगाम शक्रसहितो बाष्कलेश्च निवेशनम्। दूरादेव च तां दृष्ट्वा पुरीं तस्य समावृताम्
पांडुरैः खगमागम्यैः सर्वरत्नोपशोभितैः। शोभितां भवनैर्मुख्यैस्सुविभक्तमहापथैः
नित्यप्रभिन्नैर्मातंगैरंजनाचलसन्निभैः। देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिताम्
निर्मांसगात्रैस्तुरगैरल्पकर्णैर्मनोजवैः। दीर्घग्रीवाक्षिकूटैश्च मनोज्ञैरुपशोभिताम्
पद्मगर्भसुवर्णाभाः पूर्णचंद्रनिभाननाः। संल्लापोल्लापकुशलास्तत्र वेश्याः सहस्रशः
न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा कला। बाष्कलेर्न पुरेऽस्याथ निवासं प्रतिगच्छति
उद्यानशतसंबाधं समाजोत्सवमालिनि। अन्विते दनुमुख्यैश्च सर्वैरंतकवर्जितैः
वीणावेणुमृदंगानां शब्दैः सर्वत्र नादिते। सदा प्रहृष्टा दनुजा बहुरत्नोपशोभिताः
क्रीडमानाः प्रदृश्यंते मेराविव यथामराः। ब्रह्मघोषो महांस्तत्र दनुवृद्धैरुदीरितः
साज्यधूमेन चाग्नीनां वायुना नष्टकिल्बिषे। सुगंधधूपविक्षेप सुरभीकृतमारुते
सुगंधिदनुजाकीर्णे पुरे तस्मिंस्तु बाष्कलि। त्रैलोक्यं तु वशे कृत्वा सुखेनास्ते स दानवः
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरं। धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेंद्रियः
सुदर्शः पूर्वदेवानां नयानयविचक्षणः। ब्रह्मण्यश्च शरण्यश्च दीनानामनुकंपकः
वेदमंत्रप्रभूत्साह सर्वशक्तिसमन्वितः। षाड्गुण्यविषयोत्साहः स्मितपूर्वाभिभाषितः
वेदवेदांगतत्वज्ञो यज्ञयाजी तपोरतः। न च दुःशीलनिरतः स सर्वत्राविहिंसकः
मान्यमानयिता शुद्धः सुमुखः पूज्यपूजकः। सर्वार्थविदनाधृष्यः सुभगः प्रियदर्शनः
बहुधान्यो बहुधनो बहुयानश्च दानवः। त्रिवर्गसाधको नित्यं त्रैलोक्ये वरपूरुषः
स्वपुरीनिलयो नित्यं देवदानवदर्पहा। स चैवं पालयामास त्रैलोक्ये सकलाः प्रजाः
नाधमः कश्चिदप्यास्ते तस्मिन्राजनि दानवे। दीनो वा व्यधितो वापि अल्पायुर्वाथ दुःखितः
मूर्खो वा मंदरूपो वा दुर्भगो वा निराकृतः। एवं युतं तं विमलैर्गुणौघैर्दृष्ट्वा च मत्वा च निविष्टबुद्धिं
प्रसादयन्दैत्यवरं महात्मा पुरंदरस्तं तु दनुप्रधानं। तेजोयुक्तं दानवं तं तपंतमिव भास्करं
त्रैलोक्यधारणे शक्तं विस्मितः सोऽभवत्तदा। इंद्रं पुरागतं दृष्ट्वा दानवेंद्राय पार्थिव
इदमूचुस्तदागत्वा दानवा युद्धदुर्मदाः। आश्चर्यमिति वै कृत्वा इंद्रोभ्येति पुरीं तव1.30.
एकाकी द्विजमुख्येन वामनेन सह प्रभो। अस्माभिर्यदनुष्ठेयं सांप्रतं नो वदस्व राट्
दानवानब्रवीत्सर्वान्पुरे तिष्ठत संकुलं। प्रवेश्यतां देवराजः पूज्यः स तु ममाद्य वै
एतस्मिन्नेव काले तु वामनः स च वासवः। आगतौ दनुनाथेन प्रेम्णा चैवावलोकितौ
कृतार्थं मन्यतात्मानं प्रणिपातपुरःसरम्। उवाच वचनं राजा दानवानां धुरंधरः
अद्य वै त्रिषु लोकेषु नास्ति धन्यतरो मया। योहं श्रियावृतः शक्रं पश्यामि गृहमागतम्
अर्थित्वकाम्यया यस्तु मामयं याचयिष्यति। गृहागतस्य तस्याहं दास्ये प्राणानपि ध्रुवम्
दारान्पुत्रांस्तथागारं त्रैलोक्ये का कथा मम। आगत्य संमुखं तस्य अंकमानीय सादरम्