अथ विहितविधानं कालमासाद्य देवस्त्रिदशगणहितार्थं सर्वभूतानुकंपी। विमल विरल केशश्चंद्रशंखोदयश्रीरदितितनयभावं देवदेवश्चकार
अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रसेदुर्मुखानि। अतिविरतरजोभिर्वायुभिः संवहद्भिर्दिनमपि च तदासीज्जन्म विष्णोः सुगर्भे
अदितिरजनगर्भा सापि देवी प्रयांती नतजघनभरार्त्ता मंदसंचाररम्या। अलसवदनखेदं पांडुभावं वहंती गुरुतरमवगाढं गर्भमेवोद्वहंती1.30.
ततः प्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगात्। विनापदं प्राप्तमनोरथानि भूतानि सर्वाणि तदा बभूवुः
समीरणो वाति च मंदमंदं पतत्सु वर्षेषु नगोद्भवेषु। विविक्तमार्गेषु दिगंतरेषु जनेषु वै सत्यमुपागतेषु
विमुच्यमाने गगने रजोभिः शनैश्शनैर्नश्यति चांधकारे। उदरांतर्गते विष्णौ द्रोहबुद्धिस्तदाभवत्
तां निशामय राजेंद्र देवमातुर्यथाक्रमम्। किमनुक्रमणेनैव लंघयामि त्रिविष्टपम्
बाष्कलिं दानवेंद्रं तं कुर्यां पातालवासिनम्। शक्रस्य तु मया दत्तं धनं लावण्यमेव च
दानवानां विनाशाय एकैव प्रभवाम्यहम्। क्षिपामि शरजालानि चक्रयानान्यनेकशः
गदाव्रातांश्च विविधान्दानवानां विनाशने। विबुधान्देवलोकस्थानधोभूमेस्तु दानवान्
करोमि कालयोगेन तत्तु कार्यं व्रतेन मे। निस्सृता सहसा वाणी वक्त्रमेवाभिसंस्थिता
येनेदं चिन्त्यते पूर्वं यन्न दृष्टं न च श्रुतम्। बंधं वै दनुमुख्यस्य कृतं कोपेन पश्य मे
कश्यपाय पुरा दत्तं धनं लावण्यमेव च। किमयं विगतोत्साहो वायवोथ समाकुलाः
भ्रमतीव हि मे दृष्टिर्मैतद्रूपं प्रचिंतितम्। आविष्टा किमहं वच्मि केनाप्यसदृशं वचः
विकल्पवशमापन्नाऽभीक्ष्णं हृदिममर्श सा। दधार दिव्यं वर्षाणां सहस्रं दिव्यमीश्वरम्
ततः समभवत्तस्यां वामनो भूतवामनः। जातेन येन चक्षूंषि दानवानां हृतानि वै
जातमात्रे ततस्तस्मिन्देवदेवे जनार्दने। नद्यः स्वच्छांबुवाहिन्यो ववौ गंधवहोऽनिलः
कश्यपोपि सुखं लेभे तेन पुत्रेण भास्वता। सर्वेषां मानसोत्साहस्त्रैलोक्यांतरवासिनाम्
संजातमात्रे तु ततो जनाधिपजनार्दने। स्वर्गलोके दुंदुभयो विनेदुस्तैश्च ताडिताः
अतिप्रहर्षात्तु जगत्त्रयस्य मोहश्च दुःखानि च नाशमीयुः। जगो च गन्धर्वगणोतिमात्रं भावस्वरैर्भर्तृविमिश्रिताश्च
सुराङ्गनाश्चापि च भावयुक्ता नृत्यंति तत्राप्सरसां समूहाः। तथैव विद्याधरसिद्धसंघा विमानयानैर्मुदिता भ्रमंति
वदंति सत्यानृतकार्यनिर्णयं तथाभिरंगं प्रतिदर्शयंति। गायंति गेयं विनिवृत्तरागा मुहुर्मुहुर्दुःखसुखप्रभूताः
नृत्यंति वै स्वर्गगताश्च ते तु धर्मार्जितं स्वर्गमितो व्रजंति। इति विगतविषादे निर्मले जीवलोके तिमिरनिकरमुक्ता निर्वृतिं प्राप्तुकामाः
तत्रोचुः केचिदुर्व्यां जयजय भगवन्संप्रहृष्टाश्च केचित्। त्वेवं प्रोक्तप्रणादैरविरल मनसश्चानुवादैस्तथान्यैः। ध्यायंतेन्ये निगूढं जननभय जरामृत्युविच्छेदहेतो-। रित्येवं कृत्स्नमासीज्जगदिदमखिलं सर्वतः संपृहृष्टम्
परमासाद्य यं विष्णुं ब्रह्माह जगतः कृते। जातोयं भवतामर्थे वामनो यदपीश्वरः
एष ब्रह्मा च विष्णुश्च एष एव महेश्वरः। एष वेदाश्च यज्ञाश्च स्वर्गश्चैष न संशयः
विष्णुव्याप्तमिदं सर्वं जगत्स्थावरजंगमम्। एकः स तु पृथ्क्त्वेन स्वयंभूरिति विश्रुतः
यथार्थवर्णके स्थाने विचित्रः स्फाटिको मणिः। ततो गुणवशात्तस्य स्वयंभोरनुवर्त्तनम्
यथा हि गार्हपत्योग्निरन्यसंज्ञां पुनर्व्रजेत्। लभेत संज्ञां भगवान्ब्राह्मादिषु तथा ह्यसौ
सर्वथा वामनो देवो देवकार्यं करिष्यति। एवं चिंतयतां तेषां भावितानां दिवौकसाम्