यथाख्यातं मया दृष्टं जगत्तत्स्थमवेक्ष्य ताम्। निःस्वाध्यायवषट्कारं निवृत्तोत्सवमंगलम्
त्यक्ताध्ययनसंयोगं मुक्तवार्ता परिग्रहम्। दंडनीत्या परित्यक्तं श्वासमात्रावशेषितम्
जगदार्तिमपि प्राप्तं पुनः कष्टतरां दशां। एतावता हि कालेन वयं ग्लानिमुपागताः
ब्रह्मोवाच। जानामि बाष्कलिं तं तु वरदानाच्च गर्वितम्। अजेयं भवतां मन्ये विष्णुसाध्यो भविष्यति
निरुध्य संस्थितो ब्रह्मा भावं तत्वमयं तदा। समाधिस्थस्य तस्यैव ध्यानमात्राच्चतुर्भुजः
स्तोकेनैव हि कालेन चिंत्यमानः स्वयंभुवा। आजगाम मुहूर्तेन सर्वेषामेव पश्यताम्
विष्णुरुवाच। भो भो ब्रह्मन्निवर्त्तस्व ध्यानादस्मान्निवारितः। यदर्थमिष्यते ध्यानं सोहं त्वां समुपागतः
ब्रह्मोवाच। महाप्रसाद एषोऽत्र स्वामिनो हि प्रदर्शनम्। कस्यान्यस्य भवेच्चैषा चिन्ता या जगतः प्रभो
ममैव तावदुत्पत्तिर्जगदर्थे विनिर्मिता। जगदेतत्त्वदर्थीयं तत्त्वतो नास्ति विस्मयः
भवता पालनं कार्यं संहरेद्रुद्र एव तु। एवंभूते जगत्यस्मिन्शक्रस्यास्य महात्मनः
हृतं राज्यं बाष्कलिना त्रैलोक्यं सचराचरम्। भृत्यस्य क्रियतां साह्यं मंत्रदानेन केशव
वासुदेव उवाच। भवतो वरदानेन अवध्यः स तु सांप्रतम्। बुद्धिसाध्यः स वै कार्यो बंधनादिह दानवः
वामनोहं भविष्यामि दानवानां विनाशकः। मया सह व्रजत्वेष बाष्कलेस्तु निवेशनम्
तत्र गत्वा वरं त्वेष मदर्थे याचतामिमम्। वामनस्यास्य विप्रस्य भूमे राजन्पदत्रयम्
प्रयच्छस्व महाभाग याच्ञैषा तु मया कृता। शक्रेणोक्तो दानवेंद्रो दद्यात्स्वमपि जीवितम्
गृह्य प्रतिग्रहं तस्य दानवस्य पितामह। तं बध्वा च ततो यत्नात्कृत्वा पातालवासिनम्
सौकरं रूपमास्थाय वधार्थं च दुरात्मनः। भविष्यामि न संदेहो व्रज शक्र त्वरान्वितः
विरराम तमुक्त्वैवमंतर्द्धानं गतश्च वै। अथ कालांतरे विष्णावदितेर्गर्भतां गते
निमित्तान्यतिघोराणि प्रादुर्भूतान्यनेकशः। समस्तजगदाधारे विष्णौ गर्भत्वमागते
शोभनं हि तदा जातं निमित्तं चैवमूर्जितम्। मालतीकुसुमानां तु सुगंधः सुरभिर्ववौ
अथ विहितविधानं कालमासाद्य देवस्त्रिदशगणहितार्थं सर्वभूतानुकंपी। विमल विरल केशश्चंद्रशंखोदयश्रीरदितितनयभावं देवदेवश्चकार
अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रसेदुर्मुखानि। अतिविरतरजोभिर्वायुभिः संवहद्भिर्दिनमपि च तदासीज्जन्म विष्णोः सुगर्भे
अदितिरजनगर्भा सापि देवी प्रयांती नतजघनभरार्त्ता मंदसंचाररम्या। अलसवदनखेदं पांडुभावं वहंती गुरुतरमवगाढं गर्भमेवोद्वहंती1.30.
ततः प्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगात्। विनापदं प्राप्तमनोरथानि भूतानि सर्वाणि तदा बभूवुः
समीरणो वाति च मंदमंदं पतत्सु वर्षेषु नगोद्भवेषु। विविक्तमार्गेषु दिगंतरेषु जनेषु वै सत्यमुपागतेषु
विमुच्यमाने गगने रजोभिः शनैश्शनैर्नश्यति चांधकारे। उदरांतर्गते विष्णौ द्रोहबुद्धिस्तदाभवत्
तां निशामय राजेंद्र देवमातुर्यथाक्रमम्। किमनुक्रमणेनैव लंघयामि त्रिविष्टपम्
बाष्कलिं दानवेंद्रं तं कुर्यां पातालवासिनम्। शक्रस्य तु मया दत्तं धनं लावण्यमेव च
दानवानां विनाशाय एकैव प्रभवाम्यहम्। क्षिपामि शरजालानि चक्रयानान्यनेकशः
गदाव्रातांश्च विविधान्दानवानां विनाशने। विबुधान्देवलोकस्थानधोभूमेस्तु दानवान्