सापि तत्फलमाप्नोति देव्यनुग्रहलालिता। शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्। इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्
कृतमथ पवनेन नंदिना च किमु जननाथमहाद्भुतं न वा स्यात्
भीष्म उवाच। यज्ञपवर्तमासाद्य विष्णुना प्रभविष्णुना। पदानि चेह दत्तानि किमर्थं पदपद्धतिः
कृता वै देवदेवेन तन्मे वद महामते। कतमो दानवस्तेन विष्णुना दमितोत्र वै
कृत्वा वै पदविन्यासं तन्मे शंस महामुने। स्वर्लोके वसतिर्विष्णोर्वैकुंठेऽस्य महात्मनः
स कथं मानुषे लोके पदन्यासं चकार ह। देवलोकेषु वै देव देवाः सेंद्रपुरोगमाः
तपसा महता ब्रह्मन्भक्ता ये सततं प्रभुम्। श्रीवराहस्य वसतिर्महर्ल्लोके प्रकीर्तिता
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः। त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता
लोकानेतान्परित्यज्य कथं भूमौ पदद्वयम्। क्षेत्रे पैतामहे चास्मिन्पुष्करे यज्ञपर्वते
पदानि कृतवान्ब्रह्मन्विस्तरान्मम कीर्तय। श्रुतेन सर्वपापस्य नाशो वै भविता ध्रुवम्
पुलस्त्य उवाच। सम्यक्पृच्छसि भोस्त्वं यत्संशृणु त्वं समाहितः। यथापूर्वं पदन्यासः कृतो देवेन विष्णुना
यज्ञपर्वतमासाद्य शिलापर्वतरोधसि। पुरा कृतयुगे भीष्म देवकार्यार्थसिद्धये
विष्णुना च कृतं पूर्वं पृथिव्यर्थे परंतप। त्रिदिवं सर्वमानीतं दानवैर्बलवत्तरैः
त्रैलोक्यं वशमानीय जित्वा देवान्सवासवान्। दानवा यज्ञभोक्तारस्तत्रासन्बलवत्तराः
कृता बाष्कलिना सर्वे दानवेन बलीयसा। एवंभूते तदा लोके त्रैलोक्ये सचराचरे
परमार्तिं ययौ शक्रो निराशो जीविते कृतः। स बाष्कलिर्दानवेंद्रोऽवध्योयं मम संयुगे
ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसाम्। तदहं ब्रह्मणो लोके वृतः सर्वैर्दिवौकसैः
व्रजामि शरणं देवं गतिरन्या न विद्यते। एवं विचिंत्य देवेंद्रो वृतः सर्वैर्दिवौकसैः
जगाम त्वरितो भीष्म यत्र देवः पितामहः। ब्रह्मणः स पदं प्राप्य वृतस्तैश्च दिवौकसैः
अब्रवीज्जगतः कार्यं प्राप्तामापदमुत्तमाम्। किं न जानासि वै देव यतो नो भयमागतम्
दैत्यैर्यदाहृतं सर्वं वरदानाच्च ते प्रभो। कथितं वै मया सर्वं बाष्कलेश्च दुरात्मनः
क्रियतां चाविलंबेन पिता त्वं नः पितामहः। तत्त्वं चिंतय देवेश शांत्यर्थं जगतस्त्विह
तेषां च पश्यतां किंचिच्छ्रौतस्मार्तादिकाः क्रियाः। न प्रावर्तन्त हानिस्तु तैरस्माकं दिनेदिने
यथा हि प्राकृतः कश्चित्स्वार्थमुद्दिश्य भाषते। विज्ञाप्यसे तथास्माभिर्निरस्तोपकृतैः सदा
यद्येनोपकृतं यस्य सहस्रगुणितं पुनः। यो न तस्योपकाराय तत्करोति वृथा मतिः
तस्योपकारदग्धस्य निस्त्रपस्यासतः पुनः। नरकेष्वपि संवासस्तस्य दुष्कृतकारिणः
नैतावतैव साधुत्वं कृते यातु प्रतिक्रिया। स्वार्थैकनिष्ठबुद्धीनामेतन्नापि प्रवर्तते
यद्यस्य नाभवत्स्थानं जगतो ह्यत्र दुःखदं। शतधा हृदयं दीर्णं तन्न तृप्तिमुपागतम्
तत्र वा यत्र गंतास्मि निमग्नानुद्धरस्व नः। उपायकथनेनास्य येन तेजः प्रवर्तते