व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम्। उमामहेश्वरौ हैमौ वृषभं च गवा सह
स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्। द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्
ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह। सर्वान्कामानवाप्नोति मनसा समभीप्सितान्
अन्यान्यपि यथाशक्ति मिथुनान्यंबरादिभिः। धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः
वित्तशाठयेन रहितः पूजयेद्गतविस्मयः। एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.
सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते। फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्
यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप। सौभाग्यारोग्यरूपैश्च वस्त्रालंकारभूषणैः
न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः। यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्
करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते। पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः
विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा। नारी वा कुरुते या तु कुमारी वा नरेश्वर
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता। शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्। इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्
कृतमथ पवनेन नंदिना च किमु जननाथमहाद्भुतं न वा स्यात्
भीष्म उवाच। यज्ञपवर्तमासाद्य विष्णुना प्रभविष्णुना। पदानि चेह दत्तानि किमर्थं पदपद्धतिः
कृता वै देवदेवेन तन्मे वद महामते। कतमो दानवस्तेन विष्णुना दमितोत्र वै
कृत्वा वै पदविन्यासं तन्मे शंस महामुने। स्वर्लोके वसतिर्विष्णोर्वैकुंठेऽस्य महात्मनः
स कथं मानुषे लोके पदन्यासं चकार ह। देवलोकेषु वै देव देवाः सेंद्रपुरोगमाः
तपसा महता ब्रह्मन्भक्ता ये सततं प्रभुम्। श्रीवराहस्य वसतिर्महर्ल्लोके प्रकीर्तिता
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः। त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता
लोकानेतान्परित्यज्य कथं भूमौ पदद्वयम्। क्षेत्रे पैतामहे चास्मिन्पुष्करे यज्ञपर्वते
पदानि कृतवान्ब्रह्मन्विस्तरान्मम कीर्तय। श्रुतेन सर्वपापस्य नाशो वै भविता ध्रुवम्
पुलस्त्य उवाच। सम्यक्पृच्छसि भोस्त्वं यत्संशृणु त्वं समाहितः। यथापूर्वं पदन्यासः कृतो देवेन विष्णुना
यज्ञपर्वतमासाद्य शिलापर्वतरोधसि। पुरा कृतयुगे भीष्म देवकार्यार्थसिद्धये
विष्णुना च कृतं पूर्वं पृथिव्यर्थे परंतप। त्रिदिवं सर्वमानीतं दानवैर्बलवत्तरैः
त्रैलोक्यं वशमानीय जित्वा देवान्सवासवान्। दानवा यज्ञभोक्तारस्तत्रासन्बलवत्तराः
कृता बाष्कलिना सर्वे दानवेन बलीयसा। एवंभूते तदा लोके त्रैलोक्ये सचराचरे
परमार्तिं ययौ शक्रो निराशो जीविते कृतः। स बाष्कलिर्दानवेंद्रोऽवध्योयं मम संयुगे
ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसाम्। तदहं ब्रह्मणो लोके वृतः सर्वैर्दिवौकसैः
व्रजामि शरणं देवं गतिरन्या न विद्यते। एवं विचिंत्य देवेंद्रो वृतः सर्वैर्दिवौकसैः
जगाम त्वरितो भीष्म यत्र देवः पितामहः। ब्रह्मणः स पदं प्राप्य वृतस्तैश्च दिवौकसैः