तस्मिन्नहनि सा देवी किल विश्वात्मना सती। पाणिग्रहणिकैर्मंत्रैरुदूढा वरवर्णिनी
तया सहैव विश्वेशं तृतीयायामथार्चयेत्। फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः
प्रतिमां पंचगव्येन तथा गंधोदकेन च। स्नापयित्वार्चयेद्गौरीमिंदुशेखरसंयुताम्
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च। शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः
त्र्यंबकायेति रुद्रस्य भवान्यै जंघयोर्युगम्। शिरो रुद्रेश्वरायेति विजयायै च जानुनी
संकीर्त्य हरिकेशाय तथोरुवरदे नमः। ईशायेति कटिं रत्यै शंकरायेति शंकरम्
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये। मंगलायै नमस्तुभ्यमुदरं चाभिभूजयेत्
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्। शिवं वेदात्मने तद्वद्रुद्राण्यै कंठमर्चयेत्
त्रिपुरघ्नाय विश्वेशमनंतायै करद्वयम्। त्रिलोचनायेति हरं बाहू कालानलप्रिये
सौभाग्यभवनायेति भूषणानि सदार्चयेत्। स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ। स्थाणवे च हरं तद्वदास्यं चंद्रमुखप्रिये
नमोर्धनारीशहरमसितांगीति नासिकाम्। नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्। नमः श्रीकंठनाथाय शिवकेशांस्तथार्चयेत्
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः। हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः
स्थापयेत्स्निग्धनिष्पावान्कुसुंभक्षीरजीरकम्। तरुराजेक्षुलवणं कुस्तुंबुरुमथाष्टमम्
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत। एवंनिवेद्य तत्सर्वमग्रतः शिवयोः पुनः
चैत्रे शृंगाटकान्प्राश्य स्वपेद्भूमावरिंदम। पुनः प्रभाते च तथा कृतस्नानजपः शुचिः
संपूज्य द्विजदांपत्यं माल्यवस्त्रं विभूषणैः। सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्। एवं संवत्सरं यावत्तृतीयायां सदा नृप
प्राशने दानमंत्रे च विशेषोयं निबोध मे। गोशृंगांबु मधौ प्रोक्तं वैशाखे गोमयं पुनः
ज्येष्ठे मंदारकुसुमं बिल्वपत्रं शुचौ स्मृतम्। श्रावणे दधिसंप्राश्यं नभस्ये तु कुशोदकम्
क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्। मार्गशीर्षे तु गोमूत्रं पौषे संप्राशयेद्घृतम्
माघे कृष्णतिलांस्तद्वत्पंचगव्यं च फाल्गुने। ललिता विजया भद्रा भवानी कुमुदा शिवा
वासुदेवी तथा गौरी मंगला कमला सती। उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्
तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्। तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्
पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः। उपासनीयो विदुषा परत्रा भीतिमिच्छता
सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता। मल्लिकाशोककमलं कदंबोत्पलचंपकम्
कुब्जकं करवीरं च बाणमम्लानपंकजम्। सिंदुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्
जपाकुसुंभकुसुमं मालती शतपत्रिका। यथालाभं प्रशस्तानि करवीरं च सर्वदा
एवं संवत्सरं यावदुपोष्य विधिवन्नरः। स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः