यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्। रसरूपं न तद्यावदाप्नोति वसुधातले
उत्क्षिप्तमंतरिक्षात्तु ब्रह्मपुत्रेण धीमता। दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्
बलंतेजोमहज्जातं दक्षस्य परमेष्ठिनः। शेषं यदपतद्भूमावष्टधा तद्व्यजायत
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः। इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्
विकारवच्च गोक्षीरं कुसुंभं कुसुमं तथा। लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा। दुहिता साभवत्तस्माद्या सतीत्यभिधीयते
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते। त्रैलोक्यसुंदरीं देवीमुपयेमे पिनाकधृत्
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्। तामाराध्य पुमान्भक्त्या नारी वा किं न विंदति
भीष्म उवाच। कथमाराधनं तस्या ललिताया मुने वद। यद्विधानं च जगतः शांतये तद्वदस्व मे
पुलस्त्य उवाच। वसंतमासमासाद्य तृतीयायां जनप्रियः। शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्
तस्मिन्नहनि सा देवी किल विश्वात्मना सती। पाणिग्रहणिकैर्मंत्रैरुदूढा वरवर्णिनी
तया सहैव विश्वेशं तृतीयायामथार्चयेत्। फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः
प्रतिमां पंचगव्येन तथा गंधोदकेन च। स्नापयित्वार्चयेद्गौरीमिंदुशेखरसंयुताम्
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च। शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः
त्र्यंबकायेति रुद्रस्य भवान्यै जंघयोर्युगम्। शिरो रुद्रेश्वरायेति विजयायै च जानुनी
संकीर्त्य हरिकेशाय तथोरुवरदे नमः। ईशायेति कटिं रत्यै शंकरायेति शंकरम्
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये। मंगलायै नमस्तुभ्यमुदरं चाभिभूजयेत्
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्। शिवं वेदात्मने तद्वद्रुद्राण्यै कंठमर्चयेत्
त्रिपुरघ्नाय विश्वेशमनंतायै करद्वयम्। त्रिलोचनायेति हरं बाहू कालानलप्रिये
सौभाग्यभवनायेति भूषणानि सदार्चयेत्। स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ। स्थाणवे च हरं तद्वदास्यं चंद्रमुखप्रिये
नमोर्धनारीशहरमसितांगीति नासिकाम्। नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्। नमः श्रीकंठनाथाय शिवकेशांस्तथार्चयेत्
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः। हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः
स्थापयेत्स्निग्धनिष्पावान्कुसुंभक्षीरजीरकम्। तरुराजेक्षुलवणं कुस्तुंबुरुमथाष्टमम्
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत। एवंनिवेद्य तत्सर्वमग्रतः शिवयोः पुनः
चैत्रे शृंगाटकान्प्राश्य स्वपेद्भूमावरिंदम। पुनः प्रभाते च तथा कृतस्नानजपः शुचिः
संपूज्य द्विजदांपत्यं माल्यवस्त्रं विभूषणैः। सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्। एवं संवत्सरं यावत्तृतीयायां सदा नृप
प्राशने दानमंत्रे च विशेषोयं निबोध मे। गोशृंगांबु मधौ प्रोक्तं वैशाखे गोमयं पुनः