श्रीवृक्षे शंकरो देवः पाटलायां तु पार्वती। शिंशपायामप्सरसः कुंदे गंधर्वसत्तमाः
तिंतिडीके दासवर्गा वंजुले दस्यवस्तथा। पुण्यप्रदः श्रीप्रदश्च चंदनः पनसस्तथा
सौभाग्यदश्चंपकश्च करीरः पारदारिकः। अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः
बहुभार्या नारिकेला द्राक्षा सर्वांगसुंदरी। रतिप्रदा तथा कोली केतकी शत्रुनाशिनी
एवमादि नगाश्चान्ये ये नोक्तास्तेपि दायकाः। प्रतिष्ठां ते गमिष्यंति यैस्तु वृक्षाः प्ररोपिताः
एकोनत्रिंशोऽध्यायः । पुलस्त्यउवाच। तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्। सौभाग्यशयनंनाम यत्पुराणविदो विदुः
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु। सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा
वैकुंठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्। ततः कालेन कियता पुनः सर्गविधौ नृपः
अहंकारवृतेलोके प्रधानपुरुषान्विते। स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः
पिंगाकारा समुद्भूता वह्निज्वालातिभीषणा। तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्
यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्। रसरूपं न तद्यावदाप्नोति वसुधातले
उत्क्षिप्तमंतरिक्षात्तु ब्रह्मपुत्रेण धीमता। दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्
बलंतेजोमहज्जातं दक्षस्य परमेष्ठिनः। शेषं यदपतद्भूमावष्टधा तद्व्यजायत
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः। इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्
विकारवच्च गोक्षीरं कुसुंभं कुसुमं तथा। लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा। दुहिता साभवत्तस्माद्या सतीत्यभिधीयते
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते। त्रैलोक्यसुंदरीं देवीमुपयेमे पिनाकधृत्
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्। तामाराध्य पुमान्भक्त्या नारी वा किं न विंदति
भीष्म उवाच। कथमाराधनं तस्या ललिताया मुने वद। यद्विधानं च जगतः शांतये तद्वदस्व मे
पुलस्त्य उवाच। वसंतमासमासाद्य तृतीयायां जनप्रियः। शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्
तस्मिन्नहनि सा देवी किल विश्वात्मना सती। पाणिग्रहणिकैर्मंत्रैरुदूढा वरवर्णिनी
तया सहैव विश्वेशं तृतीयायामथार्चयेत्। फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः
प्रतिमां पंचगव्येन तथा गंधोदकेन च। स्नापयित्वार्चयेद्गौरीमिंदुशेखरसंयुताम्
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च। शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः
त्र्यंबकायेति रुद्रस्य भवान्यै जंघयोर्युगम्। शिरो रुद्रेश्वरायेति विजयायै च जानुनी
संकीर्त्य हरिकेशाय तथोरुवरदे नमः। ईशायेति कटिं रत्यै शंकरायेति शंकरम्
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये। मंगलायै नमस्तुभ्यमुदरं चाभिभूजयेत्
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्। शिवं वेदात्मने तद्वद्रुद्राण्यै कंठमर्चयेत्
त्रिपुरघ्नाय विश्वेशमनंतायै करद्वयम्। त्रिलोचनायेति हरं बाहू कालानलप्रिये
सौभाग्यभवनायेति भूषणानि सदार्चयेत्। स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्