सप्तधान्यस्थितान्कृत्वा वस्त्रगंधानुलेपनैः। कुंभान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर
पूजयित्वा दिनांते च कृत्वा बलिनिवेदनम्। यथावल्लोकपालानामिंद्रादीनां विधानतः
वनस्पतेरधिवास एवं कार्यो द्विजातिभिः। ततः शुक्लांबरधरान्सौवर्णकृतमेखलान्
सकांस्यदोहां सौवर्णशृंगाभ्यामतिशालिनीं। पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्
ततोभिषेकमंत्रेण वाद्यमंगलगीतकैः। ऋग्यजुःसाममंत्रैश्च वारुणैरभितस्तदा
तैरेव कुंभैः स्नपनं कुर्युर्ब्राह्मणपुंगवाः। स्नातः शुक्लांबरधरो यजमानोभिपूजयेत्
गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्। हेमसूत्रैः सकटकैरंगुलीयैः पवित्रकैः
वासोभिः शयनीयैश्च तथोपस्करपादुकैः। क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्
होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि। पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः। यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी
आचार्ये द्विगुणं दत्त्वा प्रणिपत्य क्षमापयेत्। अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः
सर्वान्कामानवाप्नोति पदं चानन्तमश्नुते। यश्चैवमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः
सोपि स्वर्गे वसेद्राजन्यावदिंद्रायुतत्रयम्। भूतान्भव्यांश्च मनुजांस्तारयेद्रोमसंमितान्
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्। य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
सोपि संपूज्यते देवैर्ब्रह्मलोके महीयते। अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते
तीर्थेषु पिंडदानादीन्रोपकाणां ददंति ते। यत्नेनापि च राजेंद्र अश्वत्थारोपणं कुरु
स ते पुत्रसहस्रस्य कृत्यमेकः करिष्यति। धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः
प्लक्षो यज्ञप्रदः प्रोक्तः क्षीरी चायुःप्रदः स्मृतः। जंबुकी कन्यकादात्री भार्यादा दाडिमी तथा
अश्वत्थो रोगनाशाय पलाशो ब्रह्मदस्तथा। प्रेतत्वं जायते पुंसो रोपयेद्यो विभीतकम्
अंकोले कुलवृद्धिस्तु खादिरेणाप्यरोगिता। निंबप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः
श्रीवृक्षे शंकरो देवः पाटलायां तु पार्वती। शिंशपायामप्सरसः कुंदे गंधर्वसत्तमाः
तिंतिडीके दासवर्गा वंजुले दस्यवस्तथा। पुण्यप्रदः श्रीप्रदश्च चंदनः पनसस्तथा
सौभाग्यदश्चंपकश्च करीरः पारदारिकः। अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः
बहुभार्या नारिकेला द्राक्षा सर्वांगसुंदरी। रतिप्रदा तथा कोली केतकी शत्रुनाशिनी
एवमादि नगाश्चान्ये ये नोक्तास्तेपि दायकाः। प्रतिष्ठां ते गमिष्यंति यैस्तु वृक्षाः प्ररोपिताः
एकोनत्रिंशोऽध्यायः । पुलस्त्यउवाच। तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्। सौभाग्यशयनंनाम यत्पुराणविदो विदुः
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु। सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा
वैकुंठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्। ततः कालेन कियता पुनः सर्गविधौ नृपः
अहंकारवृतेलोके प्रधानपुरुषान्विते। स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः
पिंगाकारा समुद्भूता वह्निज्वालातिभीषणा। तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्