उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत्। आथर्वणेन सुस्नातां पुनर्मायां तथैव च
आपोहिष्ठेति मंत्रेण क्षिप्त्वागत्य च मंडपं। पूजयित्वा सदस्यान्वै बलिं दद्यात्समंततः
पुनर्दिनानि होतव्यं चत्वारि राजसत्तम। चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः1.27.
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च। ऋत्विग्भ्यस्तु समं दद्यान्मंडपं विभजेत्पुनः
हेमपात्रीं च शय्यां च विप्राय च निवेदयेत्। ततः सहस्रं विप्राणामथवाऽष्टशतं तथा
भोजनीयं यथाशक्ति पंचाशद्वाथ विंशतिः। एवमेष पुराणेषु तटाकविधिरुच्यते
कूपवापीषु सर्वासु तथा पुष्करिणीषु च। एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च
मंत्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु। अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयंभुवा
स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः। प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम्
शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम्। वाजपेयातिरात्राभ्यां हेमंते शिशिरे स्थितम्
अश्वमेधसमं प्राहुर्वसंतसमये स्थितम्। ग्रीष्मेपि यत्स्थितं तोयं राजसूयाद्विशिष्यते
एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्धिः। स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदते च
अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः। सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः
भीष्म उवाच। पादपानां विधिं ब्रह्मन्यथावद्विस्तराद्वद। विधिना येन कर्त्तव्यं पादपारोपणं बुधैः
ये च लोकाः स्मृता येषां तानिदानीं वदस्व मे। पुलस्त्य उवाच। पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु
तटाकविधिवत्सर्वं समाप्य जगतीश्वर। ऋत्विङ्मंडपसंभारमाचार्यं चापि तद्विधं
पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः। सर्वौषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्
वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत्। सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनं
अंजनं चापि दातव्यं तद्वद्धेमशलाकया। फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्
प्रत्येकं सर्ववृक्षाणां वेद्यांतान्यधिवासयेत्। धूपोत्र गुग्गुलुः श्रेष्ठस्ताम्रपात्रेष्वधिष्ठितान्
सप्तधान्यस्थितान्कृत्वा वस्त्रगंधानुलेपनैः। कुंभान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर
पूजयित्वा दिनांते च कृत्वा बलिनिवेदनम्। यथावल्लोकपालानामिंद्रादीनां विधानतः
वनस्पतेरधिवास एवं कार्यो द्विजातिभिः। ततः शुक्लांबरधरान्सौवर्णकृतमेखलान्
सकांस्यदोहां सौवर्णशृंगाभ्यामतिशालिनीं। पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्
ततोभिषेकमंत्रेण वाद्यमंगलगीतकैः। ऋग्यजुःसाममंत्रैश्च वारुणैरभितस्तदा
तैरेव कुंभैः स्नपनं कुर्युर्ब्राह्मणपुंगवाः। स्नातः शुक्लांबरधरो यजमानोभिपूजयेत्
गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्। हेमसूत्रैः सकटकैरंगुलीयैः पवित्रकैः
वासोभिः शयनीयैश्च तथोपस्करपादुकैः। क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्
होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि। पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः। यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी