क्षणात्सभायां पश्यामि यमं पिंगललोचनम् । कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम्
वातपित्त श्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितम् । कायशोषज्वरातंक स्फोटिका लूतकादिभिः
ज्वालांगमर्दशीर्षार्ति भगंदर बलक्षयैः । कंठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः
विमूर्च्छिका गलग्राह हृद्रोगैर्भूततस्करैः । इत्थं बहुविधै रौद्रैर्नानारूपैर्भयंकरैः
कपालशिरोहस्तैश्च संग्रामे नरके तथा । राक्षसैर्दानवैर्घोरैरुपविष्टैः पुरः स्थितैः
धर्माधिकारिभिश्चात्र चित्रगुप्तादि लेखकैः । व्याघ्र सिंह वराहैश्च शिखासर्पैः सुदुर्द्धरैः
वृश्चिकैर्दंष्ट्रिभिर्भूतैः कीटकैर्मत्कुणादिभिः । वृक चित्रादि शुनकैः कंकैर्गृध्रैश्च जंबुकैः
तस्करैर्भूतदारिद्रैर्मारिभिर्डाकिनीग्रहैः । मुक्तकेशैः श्वासकासैर्भ्रुकुटी कुटिलाननैः
बृहत्प्रतापैर्नोभीतैः शासकैः पापकर्मणाम् । यमः सभायां शुशुभे सेव्यमानः परिग्रहैः
भीमाटविकजीवैश्च यथा व्यालांजनो गिरिः । ततो विश्वेश्वरः प्राह समयः किंकरान्प्रति
नामभ्रांतैर्भवद्भिश्च समानीतः कथं मुनिः । भीमकस्यात्मजो ग्रामे कौंडिन्ये मुद्गलाभिधः
क्षीणायुः क्षत्रियः सोऽस्ति आनेयो मुच्यतामसौ । श्रुत्वैतत्ते गतास्तस्मादायाताः पुनरेव ते
धर्मराजं पुनः प्राहुः सर्वे ते यमकिंकराः । तत्रास्माभिर्गतैर्देही क्षीणायुर्नोपलक्षितः
यम उवाच- किं कारणमदृश्यास्ते प्रायेण भवतां नराः । सुकृता द्वादशीयैस्तु ख्याता वैतरणी नदी
उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः । तिलहस्तिहिरण्यादि दत्तं यैस्तु गवाह्निकम्
दूता ऊचुः - तद्व्रतं कीदृशं ब्रह्मन्ब्रूहि सर्वमशेषतः । किं तत्र देव कर्त्तव्यं पुरुषैस्तवतोषदम्
येन कृता नरश्रेष्ठ द्वादशी कृष्णपक्षजा । उपवासे च तेनैव कथं पापात्प्रमुच्यते
तद्व्रतं केन विधिना कर्त्तव्यं च यथा वद । सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे
श्रीमुद्गल उवाच- दूतानां वचनं श्रुत्वा उवाच मधुरं तदा । सर्वं वदामि भो दूता यथादृष्टं यथाश्रुतम्
यम उवाच- मार्गशीर्षादि मासे तु या इमाः कृष्णपक्षजाः । तासु पूर्वासु विधिवद्दूता वैतरणीव्रतम्
प्रतिमासं च कर्त्तव्यं यावद्वर्षं भवेद्ध्रुवम् । यां तु कृत्वा तु भो दूता मुच्यते नात्र संशयः
उपवासस्य नियमः कर्त्तव्यो विष्णु तुष्टिदः । अद्य मे देवदेवेश उपवासो भविष्यति
द्वादश्यां पूज्य गोविंदं भक्तिभावसमन्वितम् । स्वप्नेंद्रियस्य वैकल्याद्भोजनं यच्च मैथुनम्
तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि । एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत्
मृद्गोमय तिलान्नीत्वा गंतव्यं विधिपूर्वकम् । स्नानं तत्र प्रकर्तव्यं व्रतसंपूर्णहेतवे
अश्वक्रांतेति मंत्रेण स्नानं कुर्याद्विशेषतः । अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् । तया हतेन पापेन सर्वपापैः प्रमुच्यते
काश्यां चैव तु संभूतास्तिला वै विष्णुरूपिणः । तिलस्नानेन गोविंदः सर्वं पापं व्यपोहति
विष्णुदेहोद्भवा देवि महापापापहारिणी । सर्वं पापं हर त्वं वै सर्वेषां हि नमोऽस्तु ते
तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम् । स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम्