यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत्। बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ
सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ। उदङ्मुखो दक्षिणतो यजमान उपाविशेत्
यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान्। उत्कृष्टमंत्रजाप्येन तिष्ठध्वमिति जापकान्
एवमादिश्य तान्सर्वान्संधुक्ष्याग्निं समंत्रवित्। जुहुयादाहुतीर्मंत्रैराज्यं च समिधस्तथा
ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः। ग्रहेभ्यो विधिवद्धुत्वा तथेंद्रायेश्वराय च
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे। शान्तिसूक्तं च रौद्रं च पावमानं च मंगलम्
जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्। शाक्रं रौद्रं च सौम्यं च कौश्मांडं जातवेदसम्
सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः। वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम्
शैशवं पंचनिधनं गायत्रं ज्येष्ठसाम च। वामदेव्यं बृहत्साम रौरवं च रथंतरम्
गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा। गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः
आथर्वणाश्चोत्तरतः शांतिकं पौष्टिकं तथा। जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम्
पूर्वे द्युरभितो रात्रावेवं कृत्वाधिवासनम्। गजाश्वरथवल्मीक संगमाद्व्रजगोकुलात्
मृदमादाय कुंभेषु प्रक्षिपेदोषधीस्तथा। रोचनां च ससिद्धार्थां गंधान्गुग्गुलुमेव च
स्नापनं तस्य कर्त्तव्यं पंचगव्यसमन्वितं। पूर्वं कर्तुर्महामंत्रैरेवं कृत्वा विधानतः
अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा। ततः प्रभाते विमले संजाते तु शतं गवां
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः। पंचाशद्वाथ षट्त्रिंशत्पंचविंशति वा पुनः
ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने। वेदशब्दैः सगंधर्वैर्वाद्यैश्च विविधैः पुनः
कनकालंकृतां कृत्वा जले गामवतारयेत्। सामगाय च सा देया ब्राह्मणाय विशांपते
पात्रीमादाय सौवर्णी पंचरत्नसमन्विताम्। ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः
धृतां चतुर्भिर्विप्रैश्च वेदवेदांगपारगैः। महानदीजलोपेतां दध्यक्षतविभूषिताम्
उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत्। आथर्वणेन सुस्नातां पुनर्मायां तथैव च
आपोहिष्ठेति मंत्रेण क्षिप्त्वागत्य च मंडपं। पूजयित्वा सदस्यान्वै बलिं दद्यात्समंततः
पुनर्दिनानि होतव्यं चत्वारि राजसत्तम। चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः1.27.
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च। ऋत्विग्भ्यस्तु समं दद्यान्मंडपं विभजेत्पुनः
हेमपात्रीं च शय्यां च विप्राय च निवेदयेत्। ततः सहस्रं विप्राणामथवाऽष्टशतं तथा
भोजनीयं यथाशक्ति पंचाशद्वाथ विंशतिः। एवमेष पुराणेषु तटाकविधिरुच्यते
कूपवापीषु सर्वासु तथा पुष्करिणीषु च। एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च
मंत्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु। अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयंभुवा
स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः। प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम्
शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम्। वाजपेयातिरात्राभ्यां हेमंते शिशिरे स्थितम्