वितस्तिमात्रा योनिः स्यात्षट्सप्तांगुलि विस्तृता। गर्ताश्च हस्तमात्राः स्युस्त्रिपर्वोच्छ्रितमेखलाः
सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः। अश्वत्थोदुंबरप्लक्षवटशाखाकृतानि तु
मंडपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्। शुभास्तत्राष्टहोतारो द्वारपालास्तथाष्ट वै
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः। सर्वलक्षणसंपूर्णान्मंत्रज्ञान्विजितेंद्रियान्
कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान्। प्रतिगर्तेषु कलशा यज्ञोपकरणानि च
व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम्। ततस्त्वनेकवर्णास्युर्बलयः प्रतिदैवतम्
आचार्यः प्रक्षिपेद्भूमावनुमंत्र्य विचक्षणः। अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता। हेमालंकारिणः कार्याः पंचविंशति ऋत्विजः
कुंडलानि च हैमानि केयूरकटकानि च। तथांगुलिपवित्राणि वासांसि विविधानि च
दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम्। दद्याच्छय(प)नसंयुक्तमात्मनश्चापि यत्प्रियम्
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ। ताम्रौ कुंभीरमंडूका वायसः शिंशुमारकः
एवमासाद्य तत्सर्वमादावेव विशांपते। शुक्लमाल्याम्बरधरः शुक्लंगंधानुलेपनः
सर्वौषध्युदकैः सर्वैः स्नापितो वेदपारगैः। यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः
पश्चिमद्वारमासाद्य प्रविशेद्यागमंडपम्। ततो मंगलशब्देन भेरीणां निःस्वनेन च
रजसा मंडलं कुर्यात्पंचवर्णेन तत्त्ववित्। षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम्
चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनम्। वेद्याश्चोपरितः कृत्वा ग्रहान्लोकपतींस्ततः
संन्यसेन्मंत्रतः सर्वान्प्रतिदिक्षु विचक्षणः। कलशं स्थापयेन्मध्ये वारुणं मंत्रमाश्रितम्
ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः। विनायकं च विन्यस्य कमलामंबिकां तथा
शांत्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः। पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम्
कुंभांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत्। पुष्पगंधैरलंकृत्य द्वारपालान्समंततः
यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत्। बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ
सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ। उदङ्मुखो दक्षिणतो यजमान उपाविशेत्
यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान्। उत्कृष्टमंत्रजाप्येन तिष्ठध्वमिति जापकान्
एवमादिश्य तान्सर्वान्संधुक्ष्याग्निं समंत्रवित्। जुहुयादाहुतीर्मंत्रैराज्यं च समिधस्तथा
ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः। ग्रहेभ्यो विधिवद्धुत्वा तथेंद्रायेश्वराय च
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे। शान्तिसूक्तं च रौद्रं च पावमानं च मंगलम्
जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्। शाक्रं रौद्रं च सौम्यं च कौश्मांडं जातवेदसम्
सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः। वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम्
शैशवं पंचनिधनं गायत्रं ज्येष्ठसाम च। वामदेव्यं बृहत्साम रौरवं च रथंतरम्
गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा। गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः