शूद्रोपि परया भक्त्या पाषंडालापवर्जितः। सोमाय शांताय नमोस्तु पादावनंतधाम्नेति च जानुजंघे। ऊरुद्वयं चापि जलोदराय संपूजयेन्मेढ्रमनंगधाम्ने
नमोनमः कामसुखप्रदाय कटिः शशांकस्य सदार्चनीयः। तथोदरं चाप्यमृतोदराय नाभिः शशांकाय नमोभिपूज्या
नमोस्तु चंद्राय मुखं च नित्यं दंता द्विजानामधिपाय पूज्याः। हास्यं नमश्चंद्रमसेऽभिपूज्यमोष्ठौ तु कौमोदवनप्रियाय
नासा च नाथाय वरौषधीनामानंदबीजाय पुनर्भ्रुवौ च। नेत्रद्वयं पद्मनिभं तथेंदोरिंदीवरव्यासकराय शौरेः
नमः समस्ताध्वरपूजिताय कर्णद्वयं दैत्यनिषूदनाय। ललाटमिंदोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः
शिरः शशांकाय नमो मुरारेर्विश्वेश्वरायाथ नमः किरीटं। पद्मप्रिये रोहिणीनाम लक्ष्मि सौभाग्यसौख्यामृतसागराय
दैवीं च संपूज्य सुगंधिपुष्पैर्नैवेद्यधूपादिभिरिंदुपत्नीम्। सुप्त्वा तु भूमौ पुनरुत्थितो यः स्नात्वा च विप्राय हविष्यभुक्तः
देयः प्रभाते सहिरण्य वारिकुंभो नमः पापविनाशनाय। संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च
ग्रासांश्च त्रीन्सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तं । कदंबनीलोत्पलकेतकानि जातिःसरोजं शतपत्रिका च
अम्लानपुष्पाण्यथ सिंदुवारं पुष्पं पुनर्भारतमल्लिकायाः। शुक्लं च पुष्पं करवीरपुष्पं श्रीचंपकं चंद्रमसे प्रदेयम्
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा। यस्मिन्मासे व्रतादिः स्यात्तत्पुष्पैरर्चयेद्धरिम्
एवं संवत्सरं यावदुपोष्य विधिवन्नरः। व्रतांते शयनं दद्याच्छयनोपस्करान्वितम्
रोहिणीचंद्रमिथुनं कारयित्वा तु कांचनम्। चंद्रः षडंगुलः कार्यो रोहिणी चतुरंगुला
मुक्ताफलाष्टकयुतां सितनेत्रसमन्विताम्। क्षीरकुंभोपरि पुनः कांस्यपात्राक्षतान्विताम्
दद्यान्मंत्रेण पूर्वाह्णे शालीक्षुफलसंयुताम्। श्वेतामथ सुवर्णास्यां रौप्यखुरसमन्विताम्
सवस्त्रभाजनां धेनुं तथा शंखं च भाजनम्। भूषणैर्द्विजदाम्पत्यमलंकृत्य गुणान्वितं
चंद्रोयं विप्ररूपेण सभार्य इति कल्पयेत्। यथा ते रोहिणी कृष्ण शयनं न त्यजेदपि
सोमरूपस्य वैतद्वन्न मे भेदो विभूतिभिः। यथा त्वमेव सर्वेषां परमानंदमुक्तिदः
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चंद्र दृढास्तु मे। इति संसारभीतस्य मुक्तिकामस्य चानघ
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्। इदमेव पितॄणां च सर्वदा वल्लभं नृप
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्। चंद्रलोकमवाप्नोति पुनरावृत्तिदुर्लभम्
नारी वा रोहिणीचंद्रशयनं या समाचरेत्। सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम्
इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिंदुकीर्तनेन। मतिमपि च ददाति सोपि शौरेर्भवनगतः परिपूज्यतेमरौघैः
भीष्म उवाच। तटाकारामकूपेषु वापीषु नलिनीषु च। विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च
के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत्। दक्षिणाबलयः कालः स्थानमाचार्य एव च
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व सुव्रत। पुलस्त्य उवाच। शृणु राजन्महाबाहो तटाकादिषु यो विधिः
पुराणेष्वितिहासोयं पठ्यते राजसत्तम। प्राप्य पक्षं शुभं शुक्लं संप्राप्ते चोत्तरायणे
पुण्येह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम्। अशुभैर्वर्जिते देशे तटाकस्य समीपतः
चतुर्हस्तां समां वेदीं चतुरश्रां चतुर्मुखीम्। तथा षोडशहस्तः स्यान्मंडपश्च चतुर्मुखः
वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः। नव सप्ताथ वा पंच ऋजुवक्त्रा नृपात्मज