मृगेर्चनीया रसना पुरारे रौद्रे तु दंता हरये नमस्ते। नमः सवित्रे इति शंकरस्य नासाभि पूज्या च पुनर्वसौ च
ललाटमंभोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे। सार्पे च मौलिविबुधप्रियाय मघासु कर्णाविति पूजनीयौ
पूर्वासु गोब्राह्मणनंदनाय नेत्राणि संपूज्यतमानि शंभोः। अथोत्तराफाल्गुनि भे भ्रुवौ च विश्वेश्वरायेति च पूजनीये
नमोस्तु पाशांकुशपद्मशूल कपालसर्पेन्दुधनुर्धराय। गयासुरानङ्गपुरांधकादि विनाशमूलाय नमः शिवाय
इत्यादिकांगानि च पूजयित्वा विश्वेश्वरायेति शिरोभिपूज्यम्। अत्रापि भोक्तव्यमतैलमन्नममांसमक्षारमभुक्तशेषम्
इत्येवं नृप नक्तानि कृत्वा दद्यात्पुनर्वसौ। शालेयतंडुलप्रस्थमौदुंबरमथो घृतम्
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत्। सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेत्
चतुर्दशे तु संप्राप्ते पारणे भारतादिके । ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरघृतादिभिः
कृत्वा च कांचनं पद्ममष्टपत्रं सकर्णिकम्। शुद्धमष्टांगुलं तच्च पद्मरागदलान्वितम्
शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम्। सोपधानवितानां च स्वास्तरावरणाश्रयाम्
पादुकोपानहच्छत्र चामरासनदर्पणैः। भूपणैरपिसंयुक्तां फलवस्त्रानुलेपनैः
तस्यां विधाय तत्पद्ममलंकृत्य गुणान्विताम्। कपिलां वस्त्रसंयुक्तामतिशीलां पयस्विनीम्
रौप्यखुरां हेमशृंगीं सवत्सां कांस्यदोहनाम्। दद्यान्मंत्रेण तां धेनुं पूर्वाह्णं नातिलंघयेत्
यथैवादित्य शयनमशून्यं तव सर्वदा। कांत्या धृत्या श्रिया पुष्ट्या तथा मे संतु वृद्धयः
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः। तथा मामुद्धराशेष दुःखसंसारसागरात्
ततः प्रदक्षिणीकृत्य प्रणम्य च विसर्जयेत्। शय्यां गवादि तत्सर्वं द्विजस्य भवनं नयेत्
नैतद्विशीलाय न दांभिकाय प्रकाशनीयं व्रतमिंदुमौलेः। गोविप्रदेवर्षिविकर्मयोगिनां यश्चापि निंदामधिकां विधत्ते
भक्ताय दांताय च गुह्यमेतदाख्येयमानंदकरं शिवञ्च। इदं महापातकिनां नराणां अघक्षयं वेदविदो वदंति
न बंधुपुत्रैर्न धनैर्वियुक्तः पत्नीभिरानंदकरः सुराणां। नाभ्येति रोगं न च दुःखमोहं या चापि नारी कुरुतेथ भक्त्या
इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण। यत्कीर्तनादप्यखिलानि नाशमायांति पापानि न संशयोत्र
इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात्। अपि नरकगतान्पितॄनशेषानपि दिवमानयतीह यः करोति
अश्वत्थं च वटं चैवोदुंबरं वृक्षमेव च। नंदीशं जंबुवृक्षं च बिल्वं प्राहुर्महर्षयः
मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामथ क्रमात्। एकैकं दंतधवनं वृक्षेष्वेतेषु कारयेत्
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम्। द्विजानामुदकुंभांश्च पंचरत्नसमन्वितान्
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषानवाप्नुयात्
भीष्म उवाच। दीर्घायुरारोग्यकुलातिवृद्धिभिर्युक्तः पुमान्रूपकुलान्वितः स्यात्। मुहुर्मुहुर्जन्मनि येन सम्यक्व्रतं समाचक्ष्व च शीतरश्मेः
पुलस्त्य उवाच। त्वया पृष्टमिदं सम्यगक्षयस्वर्गकारकम्। रहस्यं तु प्रवक्ष्यामि यत्पुराणविदो विदुः
रोहिणीचंद्रशयनं नामव्रतमिहोच्यते। तस्मिन्नारायणस्यार्चामर्चयेदिंदुनामभिः
यदा सोमदिने शुक्ला भवेत्पंचदशी क्वचित्। अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते
तदा स्नानं नरः कुर्यात्पंचगव्येन सर्षपैः। आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः