एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि । नोचेद्रोषेणेंद्र इव पतिष्यति रणे हतः
इत्याकर्ण्य वचस्तस्य नंदी विज्ञाप्य चेश्वरम् । भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः
संपूज्य प्रेषयामास राहुं नंदी गणाग्रणीः । अथ जालंधरं गत्वा कथयामास विस्तरात् । स्वर्भानुस्तस्य वृत्तांतं गौरीरूपं मनोहरम्
नारदउवाच- नारायणस्तदा देवो जटावल्कलधार्यथ । द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान्
तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा । तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ
भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ । वने घोरे प्रविष्टासि कथं दुष्टनिषेविते
एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः । मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम्
रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः । सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः
भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः । अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम्
करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने । तस्मादिमां विमुंचाशु सुखप्रासाददेवताम्
इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् । समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात्
इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः । पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः
अथोवाच प्रमुग्धा सा मायया जगदीशितुः । कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता
शारीरं मानसं दुःखं सतापं तपसां निधे । त्वया मधुरया वाचा हृतं राक्षसनाशनात्
तवाश्रमे तपः सौम्य करिष्यामि तपोधन
तापस उवाच- भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः । विहाय भोगानखिलान्वनं घोरमुपागतः
अनेन बटुनासार्धं मम शिष्येण कामगाः । बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः
त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे । एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः
इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः । वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप
वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ । स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी
अत्रांतरे दुराचारः कोपि पापाकृतिर्वने । जालं प्रसारयामास तद्यदा जीवपूरितम्
ततः संकोचयामास तज्जालं पापनायकः । जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह
स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम् । देवि मामत्तुमायाति करे गृह्णातु मां सखी
वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत् । वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया
दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने । विद्रवंती समं सख्या तापसाश्रममागता
सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम् । पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान्
सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् । क्षीरं वहंति सरितः स्रवंति मधु भूरुहः
शर्कराराशयस्तत्र मोदकानां च संचयाः । भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च
बहुशस्त्राणि दिव्यानि नभसः संपतंति च । क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च
मठेति सुंदरं वृंदा तं ददर्श तपस्विनम् । व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम्