ततोर्चयेद्विप्रवरं रक्तमाल्यांबरादिभिः। दद्यात्तेनैव मंत्रेण भौमं गोमिथुनान्वितम्
शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्। यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे
तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता। ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्
नक्तं क्षीराशनं कुर्यादेवं चांगारकाष्टकम्। चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते
रूपसौभाग्यसंपन्नः पुमान्जन्मनि जन्मनि। विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्
सप्तकल्पसहस्राणि रुद्रलोके महीयते। तस्मात्वमपि दैत्येंद्र व्रतमेतत्समाचर
इत्येवमुक्तो भुगुनंदनेन चकार सर्वं व्रतमेव दैत्यः। त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदंति
शृणोति यश्चैनमनन्यचेतास्तस्यापि सर्वं भगवान्विधत्ते
भीष्म उवाच। उपवासेष्वशक्तस्य तदेव फलमिच्छतः। अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुच्यताम्
पुलस्त्य उवाच। उपवासेष्वशक्तानां नक्तं भोजनमिष्यते। यस्मिन्व्रते तदप्यत्र श्रूयतां वै व्रतं महत्
आदित्यशयनं नाम यथावच्छंकरार्चनम्। येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते
यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत्। सूर्यस्य चापि संक्रांतिस्तिथिस्सा सार्वकामिकी
उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः। सूर्यार्चां शिवलिगं च उभयं पूजयेद्यतः
उमापते रवेश्चापि न भेदः क्वचिदिष्यते। यस्मात्तस्मान्नृपश्रेष्ठ गृहे भानुं समर्चयेत्
हस्तेन सूर्याय नमोस्तुपादावर्काय चित्रासु च गुल्फदेशं। स्वातीषु जंघे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम्
तथानुराधासु नमोभि पूज्यमुरुद्द्वयं चैव सहस्रभानोः। ज्येष्ठास्वनंगाय नमोस्तु गुह्यमिन्द्रा यभीमाय कटिं च मूले
पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततुरंगमाय। तीक्ष्णांशवे श्रवणे चाथ कुक्षिं पृष्ठं धनिष्ठासु विकर्तनाय
वक्षस्थलं ध्वांतविनाशनाय जलाधिपर्क्षे प्रतिपूजनीयम्। पूर्वोत्तरा भाद्रपदद्वये च बाहूत्तमश्चंडकराय पूज्यौ
साम्नामधीशाय करद्वयं च संपूजनीयं नृप रेवतीषु। नखानि पूज्यानि तथाश्विनीषु नमोस्तु सप्ताश्वधुरंधराय
कठोरधाम्ने भरणीषु कंठं दिवाकरायेत्यभिपूजनीयम्। ग्रीवाग्निपर्क्षे धरसंपुटे तु संपूजयेद्भारत रोहिणीषु
मृगेर्चनीया रसना पुरारे रौद्रे तु दंता हरये नमस्ते। नमः सवित्रे इति शंकरस्य नासाभि पूज्या च पुनर्वसौ च
ललाटमंभोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे। सार्पे च मौलिविबुधप्रियाय मघासु कर्णाविति पूजनीयौ
पूर्वासु गोब्राह्मणनंदनाय नेत्राणि संपूज्यतमानि शंभोः। अथोत्तराफाल्गुनि भे भ्रुवौ च विश्वेश्वरायेति च पूजनीये
नमोस्तु पाशांकुशपद्मशूल कपालसर्पेन्दुधनुर्धराय। गयासुरानङ्गपुरांधकादि विनाशमूलाय नमः शिवाय
इत्यादिकांगानि च पूजयित्वा विश्वेश्वरायेति शिरोभिपूज्यम्। अत्रापि भोक्तव्यमतैलमन्नममांसमक्षारमभुक्तशेषम्
इत्येवं नृप नक्तानि कृत्वा दद्यात्पुनर्वसौ। शालेयतंडुलप्रस्थमौदुंबरमथो घृतम्
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत्। सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेत्
चतुर्दशे तु संप्राप्ते पारणे भारतादिके । ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरघृतादिभिः
कृत्वा च कांचनं पद्ममष्टपत्रं सकर्णिकम्। शुद्धमष्टांगुलं तच्च पद्मरागदलान्वितम्
शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम्। सोपधानवितानां च स्वास्तरावरणाश्रयाम्