तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः। ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्
साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे। तमेवं वादिनं युक्तमुवाच वदतां वरः
विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया। पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः
अपतद्भीमवक्त्रस्य स्वेदबिंदुर्ललाटजः। भित्वा स सप्तपातालानदहत्सप्तसागरान्
अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः। वीरभद्र इति ख्यातः करपादायुतैर्युतः
कृत्वा स यज्ञमथनं पुनर्भूतस्य संप्लवः। त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं। इदानीमलमेतेन लोकदाहेन कर्मणा
शांतिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव। प्रहृष्टाभिजनाः पूजां करिष्यंति कृतात्मनः
अंगारक इति ख्यातिं गमिष्यसि धरात्मज। देवलोके द्वितीयं च तव रूपं भविष्यति
ये च त्वां पूजयिष्यंति चतुर्थ्यां तु दिने नराः। रूपमारोग्यमैश्वर्यं तेष्वनंतं भविष्यति
एवमुक्तस्ततः शांतिमगमत्कामरूपधृत्। स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः
स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं। दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः
तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः। विविधा च रुचिर्जाता यस्मात्तव विदूरगा
विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः। शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्
ईदृशी रूपसंपत्तिरिति विस्मितवानहम्। साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं
पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः। यस्माच्च भक्त्या धरणीसुतस्य विनिंद्यमानेन गवादिदानम्
आलोकितं तेन सुरारिगर्भे संभूतिरेषा तव दैत्य जाता। अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः
प्रह्लादनंदनो वीरः पुनः पप्रच्छ भार्गवम्। विरोचन उवाच। भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः
दीयमानं तु यद्दानं मया दृष्टं भवांतरे। माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि
इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं। चतुर्थ्यंगारकदिने यदा भवति दानव
मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः। अग्निर्मूर्द्धादिवो मंत्रं जपेत्स्नात उदङ्मुखः
शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः। अथास्तमित आदित्ये गोमयेनानुलेपयेत्
प्रांगणं पुष्पमालाभिरक्षताद्भिः समंततः। तदभ्यर्च्यालिखेत्पद्मं कुंकुमेनाष्टपत्रकम्
कुंकुमस्याप्यभावेन रक्तचंदनमिष्यते। चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः
तंडुलै रक्तशालेयैः पद्मरागैश्च संयुताः। चतुःकोणेषु तान्कृत्वा फलानि विविधानि च
गंधमाल्यादिकं सर्वं तथैव विनिवेशयेत्। सुवर्णशृंगां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्
धुरंधरं रक्तखुरं च सौम्यं धान्यानि सप्तांबरसंयुतानि। अंगुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदंडम् 1.24.
चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्। सामस्वरज्ञाय जितेंद्रियाय वाग्रूपशीलान्वयसंयुताय
दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दंभयुक्ते। भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः
रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते। मंत्रेणानेन दत्वार्घ्यं रक्तचंदनवारिणा