दातव्या वेदविदुषे न वंध्यापतये क्वचित्। तत्रोपवेश्य दांपत्यमलंकृत्य विधानतः
पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्। ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्
प्रतिमां देवदेवस्य सोदकुंभां निवेदयेत्। एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः
वित्तशाठ्येन रहितो नारायणपरायणः। न तस्य पत्न्या विरहः कदाचिदपि जायते
नारी वा विधवा ब्रह्मन्यावच्चंद्रार्कतारकं। न विरूपौ न शोकार्तौ दंपती भवतः क्वचित्
न पुत्रपशुरत्नानि क्षयं यांति पितामह। सप्तकल्पसहस्राणि सप्तकल्पशतानि च
कुर्वन्नशून्यशयनं विष्णुलोके महीयते। ब्रह्मोवाच। कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा
अव्यंगाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्। ईश्वर उवाच। साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते
विरोचनस्य संवादं भार्गवस्य च धीमतः। प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्
तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनंदनः। साधुसाधु महाबाहो विरोचन शिवं तव
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः। ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्
साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे। तमेवं वादिनं युक्तमुवाच वदतां वरः
विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया। पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः
अपतद्भीमवक्त्रस्य स्वेदबिंदुर्ललाटजः। भित्वा स सप्तपातालानदहत्सप्तसागरान्
अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः। वीरभद्र इति ख्यातः करपादायुतैर्युतः
कृत्वा स यज्ञमथनं पुनर्भूतस्य संप्लवः। त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं। इदानीमलमेतेन लोकदाहेन कर्मणा
शांतिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव। प्रहृष्टाभिजनाः पूजां करिष्यंति कृतात्मनः
अंगारक इति ख्यातिं गमिष्यसि धरात्मज। देवलोके द्वितीयं च तव रूपं भविष्यति
ये च त्वां पूजयिष्यंति चतुर्थ्यां तु दिने नराः। रूपमारोग्यमैश्वर्यं तेष्वनंतं भविष्यति
एवमुक्तस्ततः शांतिमगमत्कामरूपधृत्। स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः
स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं। दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः
तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः। विविधा च रुचिर्जाता यस्मात्तव विदूरगा
विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः। शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्
ईदृशी रूपसंपत्तिरिति विस्मितवानहम्। साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं
पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः। यस्माच्च भक्त्या धरणीसुतस्य विनिंद्यमानेन गवादिदानम्
आलोकितं तेन सुरारिगर्भे संभूतिरेषा तव दैत्य जाता। अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः
प्रह्लादनंदनो वीरः पुनः पप्रच्छ भार्गवम्। विरोचन उवाच। भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः
दीयमानं तु यद्दानं मया दृष्टं भवांतरे। माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि
इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं। चतुर्थ्यंगारकदिने यदा भवति दानव