स्वधर्मोयं यतो भाव्यो वेश्यानामिह सर्वदा शय्यया त्यज्यते देव न कदाचिद्यथा भवान्
शय्या ममाप्यशून्येयं तथास्तु मधुसूदन गीतवादित्रनिर्घोषं देवदेवस्य कारयेत्
एतद्वः कथितं सर्वं वेश्याधर्ममशेषतः पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया
तदिदं सांप्रतं सर्वं भवतीष्वपि युज्यते सर्वपापप्रशमनमनंतफलदायकम्
कल्याणिनीनां कथितं तदेतद्दुश्चरं व्रतम् करोति याऽशेषमुदग्रमेतत्कल्याणिनी माधवलोकसंस्था
सा पूजिता देवगणैरशेषैरानंदकृत्स्थानमुपैति विष्णोः तपोधनः सोप्यभिधाय चैतदनंगदानव्रतमंगनानाम्
स्वस्थानमेष्यंति समस्तमित्थं व्रतं करिष्यंति च देवयोने
ब्रह्मोवाच। भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्। शोकव्याधिभयं दुःखं न भवेद्येन तद्वद
शंकर उवाच। श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः। क्षीरार्णवे सपत्नीकः सदा वसति केशवः
तस्यां संपूज्य गोविंदं सर्वान्कामानवाप्नुयात्। गोभूहिरण्यदानादि सप्तकल्पशतानुगम्
आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्। अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता
तस्यां संपूजयेद्विष्णुमेभिर्मंत्रैर्विधानतः। श्रीवत्सधारिन्श्रीकांत श्रीपते श्रीधराव्यय
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं। अग्नयो मा प्रणश्यंतु देवताः पुरुषोत्तम
पितरो मा प्रणश्यंतु मम दांपत्यभेदतः। लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः
तथा कलत्रसंबंधो देव मा मे वियुज्यतां। लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन। गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्
घंटा भवेदशक्तस्य सर्ववाद्यमयो यतः। एवं संपूज्य गोविंदमश्नीयात्तैलवर्जितम्
नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं। ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम्
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्। पादुकोपानहच्छत्र चामरासन संयुताम्
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पांबरावृताम्। अव्यंगाय च विप्राय वैष्णवाय कुटुंबिने
दातव्या वेदविदुषे न वंध्यापतये क्वचित्। तत्रोपवेश्य दांपत्यमलंकृत्य विधानतः
पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्। ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्
प्रतिमां देवदेवस्य सोदकुंभां निवेदयेत्। एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः
वित्तशाठ्येन रहितो नारायणपरायणः। न तस्य पत्न्या विरहः कदाचिदपि जायते
नारी वा विधवा ब्रह्मन्यावच्चंद्रार्कतारकं। न विरूपौ न शोकार्तौ दंपती भवतः क्वचित्
न पुत्रपशुरत्नानि क्षयं यांति पितामह। सप्तकल्पसहस्राणि सप्तकल्पशतानि च
कुर्वन्नशून्यशयनं विष्णुलोके महीयते। ब्रह्मोवाच। कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा
अव्यंगाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्। ईश्वर उवाच। साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते
विरोचनस्य संवादं भार्गवस्य च धीमतः। प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्
तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनंदनः। साधुसाधु महाबाहो विरोचन शिवं तव