सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः सहैव पुण्डरीकाक्षं द्वादश्यां क्षीरभोजनम्
करिष्यामि यथात्मानं निर्विघ्नेनास्तु तच्च मे एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः
श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशाम्पते स्नानं कृत्वा मुदा तद्वत्पाषण्डानभिवर्जयेत्
उपास्य सन्ध्यां विधिवत्कृत्वा च पितृतर्पणम् प्रणम्य च हृषीकेशं शेषपर्यङ्कशायिनम्
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन
चतुर्हस्तप्रमाणं तु विन्यसेत्तत्र तोरणम् मध्ये च कलशं तत्र माषमात्रेण सञ्युतम्
छिद्रेण जलसम्पूर्णमधः कृष्णाजिने स्थितः तस्य धारां च शिरसा धारयेत्सकलां निशाम्
धाराभिर्भूरिभिर्भूरि फलं वेदविदो विदुः यस्मात्तस्मात्कुरुश्रेष्ठ कारयेत्प्रयतो द्विजः
दक्षिणे चार्धचन्द्रं तु पश्चिमे वर्तुलं तथा अश्वत्थपत्राकारं च उत्तरेण तु कारयेत्
मध्ये तु पद्माकारं च कारयेद्वैष्णवो द्विजः पूर्वतो वेदिकां स्थो न स्थो न याम्ये च कल्पयेत्
पानीयधारां शिरसि धारयेद्विष्णुतत्परः द्वितीया वेदी देवस्य तत्र पद्मं सकर्णिकम्
तस्य मध्ये स्थितं देवं कुर्याद्वै पुरुषोत्तमम् हस्तमात्रं च तत्कुण्डं कृत्वा तत्र त्रिमेखलम्४५ योनिवक्त्रं ततस्तस्मिन्ब्राह्मणैर्यवसर्पिषी तिलाञ्श्च विष्णुदेवत्यैर्मंत्रैरेवानले हुनेत्
कृत्वा तु वैष्णवं सम्यग्यागं तत्र प्रकल्पयेत् आज्यधारा मध्यमे तु कुंडे दद्यात्तु यत्नतः
क्षीरधारां देवदेवे वारिधारात्मनोपरि निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत्
स्वेच्छया क्षीरजलयोरविच्छिन्नां च शर्वरीं जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश
भक्ष्यैर्नानाविधैर्युक्तान्सितवस्त्रैरलङ्कृतान् प्रतानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितैः।1.23.
चतुर्भिर्बह्वृचैर्होमः कार्यस्तत्र उदङ्मुखैः रुद्रजाप्यश्चतुर्भिश्च यजुर्वेदपरायणैः
वैष्णवानि च सामानि चतुर्भिः सामवेदिभिः एवं द्वादश वै विप्रान्वस्त्रमाल्यानुलेपनैः
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः
एवं क्षपातिवाह्या वै गीतमङ्गलनिःस्वनैः उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु
ततः प्रभाते विमले समुत्थाय त्रयोदश गावो देयाः कुरुश्रेष्ठ सौवर्णशृङ्गसंवृताः
पयस्विन्यः शीलवत्यः कांस्यदोहसमन्विताः रौप्यखुराः सवत्साश्च चन्दनेनाभिभूषिताः
तास्तु तेषां ततो दत्वा भक्ष्यभोज्येन तर्पितान् कृत्वा वै ब्राह्मणान्सर्वान्छत्रैर्नानाविधैस्तथा
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत् अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः एवं गुर्वाज्ञया कुम्भान्गाश्चैव शयनानि च
वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः अभावे बहुशय्यानामेकामपि सुसंस्कृताम्
शय्यां दद्याद्गृही भीम सर्वोपस्करसंयुताम् इतिहासपुराणानि वाचयित्वा तु वाहयेत्
तद्दिनं कुरुशार्दूल य इच्छेद्विपुलां श्रियम् तस्मात्त्वं सत्त्वमालंब्य भीमसेन विमत्सरः
कुरु व्रतमिदं सम्यक्स्नेहाद्गुह्यं मयोदितम् त्वया कृतमिदं वीर त्वन्नाम्ना च भविष्यति
सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते