कथमारोग्यमैश्वर्यमनंतममरेश्वर अल्पेन तपसा देव भवेन्मोक्षः सदा नृणां
किं तज्ज्ञानं महादेव त्वत्प्रसादादधोक्षज अल्पकेनापि तपसा महाफलमिहोच्यते
इति पृष्टस्स विश्वात्मा ब्रह्मणा लोकभावनः उमापतिरुवाचेदं मनसः प्रीतिकारकम्
ईश्वर उवाच अस्माद्रथंतरात्कल्पाद्भूयो विञ्शतिमो यदा वाराहो भविता कल्पस्तदा मन्वन्तरे शुभे
वैवस्वताख्ये सम्प्राप्ते सप्तमे सप्तलोकधृक् द्वापराख्यंयुगं तस्मिन्सप्तविंशतिमं यदा
तस्यां ते तु महातेजा वासुदेवो जनार्दनः भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति
द्वैपायन ऋषिस्तत्र रौहिणेयोथ केशवः कंसारिः केशिमथनः केशवः क्लेशनाशनः९ पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः
त्वष्टा तदाज्ञया ब्रह्मन्करिष्यति जगत्पतेः तस्यां कदाचिदासीनः सभायां सोऽमितद्युतिः
भार्याभिर्वृष्णिविद्वद्भिभूरिभिर्भूरिदक्षिणैः कुरुभिर्देवगन्धर्वैरन्वितः कैटभार्दनः
प्रवृत्तासु पुराणासु धर्मसम्बन्धधिनीषु च कथासु भीमसेनेन परिपृष्टः प्रतापवान्
त्वया पृष्टस्य धर्मस्य वक्ष्यत्यस्य च भेददृक् भविता स तदा ब्रह्मन्कर्ता चैव वृकोदरः
प्रवर्तकोऽस्य धर्मस्य पाण्डुसूनुर्महाबलः यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः
सम्भाष्यते स धर्मात्मा तेन चासौ वृकोदरः अतीव स्वादशीलश्च नागायुत बलो महान्
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे इदं व्रतमशेषाणां व्रतानामधिकं यतः
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः अशेषयज्ञफलदमशेषाघविनाशनम्
अशेषदुष्टशमनमशेषसुरपूजितम् पवित्राणां पवित्रं यन्मगलानां च मङ्गलम् भविष्यं च भविष्याणां पुराणानां पुरातनम्
वासुदेव उवाच यद्यष्टमी चतुर्द्दश्योर्द्वादशीषु च भारत अन्येष्वपि दिनर्क्षेषु नशक्तस्त्वमुपोषितुम्
ततस्त्वग्र्यामिमां भीम तिथिं पापप्रणाशिनीम् उपोष्य विधिनानेन गच्छ विष्णोः परं पदं
माघमासस्य दशमी यदा शुक्ला भवेत्तदा घृतेनाभ्यंजनं कृत्वा तिलैः स्नानं समाचरेत्
तथैव विष्णुमभ्यर्चेन्नमो नारायणाय च कृष्णाय पादौ संपूज्य शिरःकृष्णात्मनेति च
वैकुण्ठायेति वैकुण्ठमुरः श्रीवत्सधारिणे शङ्खिने गदिने चैव चक्रिणे वरदाय वै
सर्वं नारायणन्त्वेवं सम्पूज्यावाहनक्रमात् दामोदरायेत्युदरं कटिं पञ्चजनाय वै
ऊरूसौभाग्यनाथाय जानुनी भूतधारिणे नमो नीलाय वै जङ्घे पादौ विश्वभुजे पुनः
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रियै नमस्तुष्ट्यै नमः पुष्ट्यै धृत्यै व्युष्ट्यै नमो नमः
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे विषप्रमथनायेति गरुडं चाभिपूजयेत्
एवं सम्पूज्य गोविन्दमुमापतिविनायकौ गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि
गव्येन पयसा सिक्तां कृसरामथ पायसम् सर्पिषा सह भुक्त्वा तु गत्वा स्थानांतरं पुनः
नैयग्रोधं दन्तकाष्ठमथवा खादिरं बुधः गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः
ब्रूयात्सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ नमो नारायणायेति त्वामहं शरणं गतः
एकादश्यां निराहारः समभ्यर्च्य च केशवम् तां रात्रिं सकलां स्थित्वा शेषपर्यंकशायिनम्