माघस्यामलपक्षे तु पंचम्यां लघुभुङ्नरः।। दंतकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः
विप्रान्संपूजयित्वा तु मंदारं प्रार्थयेन्निशि।। ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान्
भोजयेच्छक्तितः कुर्यान्मंदारकुसुमाष्टकं।। सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनं
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेष्टपत्रकं।। हेममंदारकुसुमैर्भास्करायेति पूर्वतः
नमस्कारेण तद्वच्च सूर्यायेत्यमले दले।। दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते
पश्चिमे वेदधाम्ने च वायव्ये चंडभानवे।। पूष्णे चोत्तरतः पूज्य आनंदायेति तत्परम्
कर्णिकायां च पुरुषः स्थाप्यः सर्वात्मनेपि च।। शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः।। भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही
अनेन विधिना सर्वं सप्तम्यां मासिमासि च।। कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः
एतदेव व्रतांते तु निधाय कलशोपरि।। गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता३०० 1.21.
नमो मंदारनाथाय मंदारभवनाय च।। त्वं रवे तारयस्वास्मानस्मात्संसारसागरात्
अनेन विधिना यस्तु कुर्यान्मंदारसप्तमीम्।। विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते
इमामघौघपटलभीषणध्वांतदीपिकां।। गच्छन्संगृह्य संसारशर्वर्यां न स्खलेन्नरः
मंदारसप्तमीमेतामीप्सितार्थफलप्रदां।। यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीं।। यामुपोष्य नरो रोगशोकौघात्तु प्रमुच्यते
पुण्यमाश्वयुजे मासि कृतस्नानजपः शुचिः।। वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीं
कपिलां पूजयेद्भक्त्या गंधमाल्यानुलेपनैः।। नमामि सूर्यसंभूतामशेषभुवनालयां
त्वामहं शुभकल्याणि स्वशरीरविशुद्धये।। अथ कृत्वा तिलप्रस्थं ताम्रपात्रेणसंयुतम्
कांचनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितं।। सोपधानं च विश्रामभाजनासनसंयुतम्
फलैर्नानाविधैर्भक्ष्यैः घृतपायससंयुतैः।। दद्याद्द्विकालवेलायामर्यमा प्रीयतामिति३१० विकाल ततः प्रभाते संजाते भक्त्या संतर्पयेद्द्विजान्
अनेन विधिना दद्यान्मासिमासि सदा नरः।। वाससी वृषभं हैमं तद्वद्गां कांचनोद्भवाम्
संवत्सरांते शयनमिक्षुदंडगुडान्वितम्।। ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति।। अनेन विधिना विद्वान्कुर्याद्यः शुभसप्तमीम्
तस्य श्रीर्विमला कीर्त्तिर्भवेज्जन्मनि जन्मनि।। अप्सरोगणगंधर्वैः पूज्यमानः सुरालये
वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम्।। कल्पादाववतीर्णश्च सप्तद्वीपाधिपो भवेत्
भ्रूणहत्यासहस्रस्य ब्रह्महत्याशतस्य च।। नाशायालमियं पुण्या पठ्यते शुभसप्तमी
इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसंगादपि दीयमानम्।। सोप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम्
यावत्समास्सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्।। स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः
भीष्म उवाच वैष्णवा ये तु वै धर्मा यान्रुद्रः प्रोक्तवानिह तान्मे कथय विप्रेंद्र कीदृशास्ते फलं तु किम्
पुलस्त्य उवाच पुरा रथन्तरे कल्पे परिपृष्टो महात्मना मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्