दिवाकर नमस्तेस्तु प्रभाकर नमोस्तुते।। ततो द्विकालवेलायामुदकुंभसमन्वितम्
विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः।। शक्तितः कपिलां दद्यादलंकृत्य विधानतः
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्।। यथाशक्ति च भुंजीत विमांसं तैलवर्जितं
अनेन विधिना शुक्लसप्तम्यां मासि मासि च।। सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्
गाश्च प्रदद्याच्छक्त्या तु सुवर्णस्य पयस्विनीः।। भाजनासनदीपादीन्दद्यादिष्टानुपस्करान्
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्।। लक्ष्मीमनंतामभ्येति सूर्यलोके च मोदते
कल्पेकल्पे ततो लोकान्सप्त गत्वा पृथक्पृथक्।। अप्सरोभिः परिवृतस्ततो याति परां गतिं
पश्येदिमां यः शृणुयान्मुहूर्ते पठेच्च भक्त्याथ मतिं ददाति।। सोप्यत्र लक्ष्मीममलामवाप्य गंधर्वविद्याधरलोकमेति
अतः परं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्।। सर्वकामप्रदां पुण्यां नाम्ना मंदारसप्तमीं
माघस्यामलपक्षे तु पंचम्यां लघुभुङ्नरः।। दंतकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः
विप्रान्संपूजयित्वा तु मंदारं प्रार्थयेन्निशि।। ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान्
भोजयेच्छक्तितः कुर्यान्मंदारकुसुमाष्टकं।। सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनं
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेष्टपत्रकं।। हेममंदारकुसुमैर्भास्करायेति पूर्वतः
नमस्कारेण तद्वच्च सूर्यायेत्यमले दले।। दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते
पश्चिमे वेदधाम्ने च वायव्ये चंडभानवे।। पूष्णे चोत्तरतः पूज्य आनंदायेति तत्परम्
कर्णिकायां च पुरुषः स्थाप्यः सर्वात्मनेपि च।। शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः।। भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही
अनेन विधिना सर्वं सप्तम्यां मासिमासि च।। कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः
एतदेव व्रतांते तु निधाय कलशोपरि।। गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता३०० 1.21.
नमो मंदारनाथाय मंदारभवनाय च।। त्वं रवे तारयस्वास्मानस्मात्संसारसागरात्
अनेन विधिना यस्तु कुर्यान्मंदारसप्तमीम्।। विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते
इमामघौघपटलभीषणध्वांतदीपिकां।। गच्छन्संगृह्य संसारशर्वर्यां न स्खलेन्नरः
मंदारसप्तमीमेतामीप्सितार्थफलप्रदां।। यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीं।। यामुपोष्य नरो रोगशोकौघात्तु प्रमुच्यते
पुण्यमाश्वयुजे मासि कृतस्नानजपः शुचिः।। वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीं
कपिलां पूजयेद्भक्त्या गंधमाल्यानुलेपनैः।। नमामि सूर्यसंभूतामशेषभुवनालयां
त्वामहं शुभकल्याणि स्वशरीरविशुद्धये।। अथ कृत्वा तिलप्रस्थं ताम्रपात्रेणसंयुतम्
कांचनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितं।। सोपधानं च विश्रामभाजनासनसंयुतम्
फलैर्नानाविधैर्भक्ष्यैः घृतपायससंयुतैः।। दद्याद्द्विकालवेलायामर्यमा प्रीयतामिति३१० विकाल ततः प्रभाते संजाते भक्त्या संतर्पयेद्द्विजान्