स्वदेहभूषणान्येव क्षयं नीतानि तेन वै । गणिकाभिः परित्यक्तो निंदितश्च धनक्षयात्
ततश्चिंतापरो जातो वस्त्रहीनः क्षुधार्दितः । किं करोमि क्वगच्छामि केनोपायेन जीव्यते
तस्करत्वं समारब्धं तत्रैव नगरे पितुः । गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात्
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससंभ्रमैः । धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः । न स्थातव्यं हि मंदात्मंस्त्वया मद्देशगोचरे
एवमुक्त्वा ततो राज्ञा मोचितो दृढबंधनात् । निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम्
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति । सिंहवन्निजघानासौ मृग शूकर चित्रलान्
आमिषाहार निरतो वने तिष्ठति सर्वदा । करे शरासनं कृत्वा निषंगं पृष्ठ संगतम्
अरण्यचारिणो हंति पक्षिणश्च पदाचरन् । चकोरांश्च मयूरांश्च कंक तित्तिर मूषिकान्
एतानन्यान्हिनस्त्यंधो धृष्टबुद्धिस्तु निर्घृणः । पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम् । कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित्
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम् । आससाद धृष्टबुद्धिः शोकभारेण पीडितः
तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः । कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि
धृष्टबुद्धिरुवाच- भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि । येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद
कौंडिन्य उवाच- शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव । वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः । मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम्
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता । इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः
व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः । कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः । जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम्
इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम् । नातः परतरं किंचित्त्रैलोक्ये सचराचरे
यज्ञादितीर्थदानानि कलां नार्हंति षोडशीम् । पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां सहितायामुत्तरखंडे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपंचाशत्तमोऽध्यायः
नारद उवाच- यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम । कथं न गम्यते देव नरेण नरकांतरे
श्रूयते यमलोके तु सदा वैतरणी नदी । अनाधृष्यात्वपारा च दुस्तरा बहुशोणिता
दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत् । भयमेतन्महादेव यमलोकं प्रति प्रभो
तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः । भगवन्देवदेवेश कृपां कृत्वा ममोपरि
महादेव उवाच- द्वारवत्यां पुरा विप्र स्नातोऽहं लवणांभसि । ददृशे मुनिमायांतं मुद्गलं नाम वाडव
ज्वलंतमिवचादित्यं तपसा द्योततांगकम् । मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः
मुद्गल उवाच- अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले । प्रज्वलंति ममांगानि गृहीतो यमकिंकरैः
बलादाकृष्यमाणोऽहं पुरुषॐगुष्ठमात्रकः । बद्धो यमभटैर्गाढं नीतोऽस्मि शमनांतिकम्