आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते।। माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः
प्रातः स्नात्वा तिलैः शुभ्रैः शुद्धमाल्यानुलेपनः।। स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम्
तस्मिन्नमः सवित्रेति गंधपुष्पं निवेदयेत्।। स्थापयेदुदकुंभं च शर्करापात्रसंयुतम्
शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः।। स्वर्णपुष्पसमायुक्तं मंत्रेणानेन पूजयेत्
विश्ववेदमयो यस्मात्त्वं वेदेषु च पठ्यसे।। त्वमेवामृतसर्वस्वमतः शांतिं प्रयच्छ मे
पंचगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।। सौरसूक्तं जपन्नास्ते पुराणश्रवणेन च
अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः।। तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्
भोजयेच्छक्तितो विप्रान्शर्कराघृतपायसैः।। भुंजीतातैललवणं स्वयमप्यथ वाग्यतः
अनेन विधिना सर्वं मासिमासि समाचरेत्।। संवत्सरांते शयनं शर्कराकलशान्वितम्
सर्वोपस्करसंयुक्तं तथैकांगां पयस्विनीम्।। गृहं च शक्तिमान्दद्यात्समस्तोपस्करान्वितम्
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा।। दशभिर्वा त्रिभिर्वापि निष्केणैकेन वा पुनः
पद्मं स्वशक्तितो दद्यात्पूर्ववन्मंत्रपाठनम्।। वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्समश्नुते
अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिंदवः।। समुत्पेतुर्द्धरण्यां ये शालिमुद्गेक्षवस्तु ते
शर्करायारसस्तस्मादिक्षुसारोमृतात्मवान्।। इष्टारवेरतः पुण्या शर्करा हव्यकव्ययोः
शर्करासप्तमी चेयं वाजिमेधफलप्रदा।। सर्वदुष्टोपशमनी पुत्रपौत्रविवर्धिनी
यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति।। कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्
इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके।। मतिमपि च ददाति सोपि देवैरमरपुरे परिपूज्यते मुनीन्द्रैः
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम्।। यस्यास्संकीर्त्तनादेव तुष्यतीह दिवाकरः
वसंतामलसप्तम्यां सुस्नातो गौरसर्षपैः।। तिलपात्रे च सौवर्णं निधाय कमलं शुभम्
वस्त्रयुग्मावृतं कृत्वा गंधपुष्पैरथार्चयेत्।। नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तुते।। ततो द्विकालवेलायामुदकुंभसमन्वितम्
विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः।। शक्तितः कपिलां दद्यादलंकृत्य विधानतः
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्।। यथाशक्ति च भुंजीत विमांसं तैलवर्जितं
अनेन विधिना शुक्लसप्तम्यां मासि मासि च।। सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्
गाश्च प्रदद्याच्छक्त्या तु सुवर्णस्य पयस्विनीः।। भाजनासनदीपादीन्दद्यादिष्टानुपस्करान्
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्।। लक्ष्मीमनंतामभ्येति सूर्यलोके च मोदते
कल्पेकल्पे ततो लोकान्सप्त गत्वा पृथक्पृथक्।। अप्सरोभिः परिवृतस्ततो याति परां गतिं
पश्येदिमां यः शृणुयान्मुहूर्ते पठेच्च भक्त्याथ मतिं ददाति।। सोप्यत्र लक्ष्मीममलामवाप्य गंधर्वविद्याधरलोकमेति
अतः परं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्।। सर्वकामप्रदां पुण्यां नाम्ना मंदारसप्तमीं