कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी।। व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम्
शय्यां सोपस्करां दद्यात्कपिलां च पयस्विनीं।। अनेन विधिना यस्तु वित्तशाठ्येन वर्जितः
विशोकसप्तमीं कुर्यात्स याति परमां गतिम्।। यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्
तावन्न शोकमाप्नोति रोगदौर्गत्यवर्जितः।। यं यं कामयते कामं तं तं प्राप्नोति पुष्कलम्
निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति।। यः पठेच्छृणुयाद्वापि विशोकाख्यां तु सप्तमीम्
सोपींद्रलोकमासाद्य न दुःखी जायते क्वचित्।। अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्
यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत्।। मार्गशीर्षे शुभे मासि पंचम्यां नियतव्रतः
षष्ठीमुपोष्य कमलं कारयित्वा तु कांचनम्।। शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने
रूपं च कांचनं कृत्वा फलस्यैकस्य धर्मवित्।। दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति
शक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम्।। कृत्वा कुर्यात्फलत्यागं यावत्स्यात्कृष्णसप्तमी२५० 1.21.
तामुपोष्याथ विधिवदनेनैव क्रमेण तु।। तद्वद्धेमफलं दत्वा सुवर्णकमलान्वितम्
शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितम्।। संवत्सरमनेनैव विधिनोभयसप्तमीम्
उपोष्य दद्यात्क्रमशः सूर्यमंत्रमुदीरयेत्।। भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः
श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति।। प्रतिमासं च सप्तम्यामेकैकं नाम कीर्त्तयेत्
प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत्।। व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः
शर्कराकलशं दद्याद्धेमपद्मफलान्वितम्।। यथा न विफलः कामस्त्वद्भक्तानां सदा भवेत्
तथानंतफलावाप्तिरस्तु मे जन्मजन्मनि।। इमामनंतफलदां यः कुर्यात्फलसप्तमीम्
भूतभव्यांश्च पुरुषांस्तारयेदेकविंशतिम्।। यः शृणोति पठेद्वापि सोपि कल्याणभाग्भवेत्
सर्वपापविशुद्धात्मा सूर्यलोके महीयते।। सुरापानादिकं किंञ्चिदत्रामुत्र च वा कृतम्
तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम्।। शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम्
आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते।। माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः
प्रातः स्नात्वा तिलैः शुभ्रैः शुद्धमाल्यानुलेपनः।। स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम्
तस्मिन्नमः सवित्रेति गंधपुष्पं निवेदयेत्।। स्थापयेदुदकुंभं च शर्करापात्रसंयुतम्
शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः।। स्वर्णपुष्पसमायुक्तं मंत्रेणानेन पूजयेत्
विश्ववेदमयो यस्मात्त्वं वेदेषु च पठ्यसे।। त्वमेवामृतसर्वस्वमतः शांतिं प्रयच्छ मे
पंचगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।। सौरसूक्तं जपन्नास्ते पुराणश्रवणेन च
अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः।। तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्
भोजयेच्छक्तितो विप्रान्शर्कराघृतपायसैः।। भुंजीतातैललवणं स्वयमप्यथ वाग्यतः
अनेन विधिना सर्वं मासिमासि समाचरेत्।। संवत्सरांते शयनं शर्कराकलशान्वितम्
सर्वोपस्करसंयुक्तं तथैकांगां पयस्विनीम्।। गृहं च शक्तिमान्दद्यात्समस्तोपस्करान्वितम्