मंत्रैरेतैस्समभ्यर्च्य नमस्कारांत दापितैः।। शुक्लैर्वस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः
स्थंडिले पूजयेद्भक्त्या गुडेन लवणेन वै।। ततो व्याहृतिमंत्रेण विसृज्य द्विजपुंगवान्
शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः।। तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः।। कृतस्नानजपो विप्रैः सहैव घृतपायसम्
भुक्त्वा च वेदविदुषि वैडालव्रतवर्जिते।। घृतपात्रं सकनकं सोदकुंभं निवेदयेत्
प्रीयतामत्र भगवान्परमात्मा दिवाकरः।। अनेन विधिना सर्वं मासिमासि समाचरेत्
ततस्त्रयोदशे मासि गाश्च दद्यात्त्रयोदश।। वस्त्रालंकारसंयुक्ताः स्वर्णशृंगाः पयस्विनीः
एकामपि प्रदद्याच्च वित्तहीनो विमत्सरः।। न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीं।। सर्वपापविनिर्मुक्तः सूर्यलोके महीयते
आयुरारोग्यमैश्वर्यमनंतमिह जायते।। सर्वपापहरा चेयं सर्वदैवतपूजिता
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी।। इमामनंतफलदां यस्तु कल्याणसप्तमीं
शृणोति यः पठेद्वापि स च पापैः प्रमुच्यते।। विशोकसप्तमीं तद्वद्वक्ष्यामि नृपसत्तम
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते।। माघे कृष्णतिलै स्नातः पंचम्यां शुक्लपक्षतः
कृताहारः कृसरया दंतधावनपूर्वकम्।। उपवासव्रतं कृत्वा ब्रह्मचारी निशि स्वपेत्
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः।। कृत्वा तु कांचनं पद्ममर्कायेति प्रपूजयेत्
करवीरेण रक्तेन रक्तवस्त्रयुगेन च।। यथा विशोकं भुवनं त्वयैवादित्य सर्वदा
तथा विशोकता मे स्यात्त्वद्भक्तिः प्रतिजन्म च।। एवं सपूज्य षष्ठ्यां तु भक्त्या संपूजयेद्द्विजान्
स्वयं संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः।। संपूज्य विप्रान्यत्नेन गुडपात्रसमन्वितम्
सद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत्।। अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः
ततः पुराणश्रवणं कर्त्तव्यं भूतिमिच्छता।। अनेन विधिना सर्वमुभयोरपि पक्षयोः
कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी।। व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम्
शय्यां सोपस्करां दद्यात्कपिलां च पयस्विनीं।। अनेन विधिना यस्तु वित्तशाठ्येन वर्जितः
विशोकसप्तमीं कुर्यात्स याति परमां गतिम्।। यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्
तावन्न शोकमाप्नोति रोगदौर्गत्यवर्जितः।। यं यं कामयते कामं तं तं प्राप्नोति पुष्कलम्
निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति।। यः पठेच्छृणुयाद्वापि विशोकाख्यां तु सप्तमीम्
सोपींद्रलोकमासाद्य न दुःखी जायते क्वचित्।। अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्
यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत्।। मार्गशीर्षे शुभे मासि पंचम्यां नियतव्रतः
षष्ठीमुपोष्य कमलं कारयित्वा तु कांचनम्।। शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने
रूपं च कांचनं कृत्वा फलस्यैकस्य धर्मवित्।। दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति
शक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम्।। कृत्वा कुर्यात्फलत्यागं यावत्स्यात्कृष्णसप्तमी२५० 1.21.