यदन्यद्रोचते तुभ्यं तन्मां पृच्छस्व पार्थिव भगवन्भवसंसारसागरोत्तारकारकम्
किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यफलप्रदम् सौरधर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम्
विशोकसप्तमीं तद्वत्तृतीयां फलसप्तमीम्।। शर्करासप्तमीं कुर्यात्तथा कमलसप्तमीम्
मंदारसप्तमीं षष्ठीं सप्तमीं शुभसप्तमीम्।। सर्वाः पुण्यफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः
विधानमासां वक्ष्यामि यथावदनुपूर्वशः।। यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत्
सा तु कल्याणिनी नाम विजया च निगद्यते।। प्रातर्गव्येन पयसा स्नानं नद्यां समाचरेत्
शुक्लांबरधरः पद्ममक्षतैः परिकल्पयेत्।। प्राङ्मुखोष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम्
पुष्पाक्षताद्भिर्देवेशं विन्यसेत्सर्वतः क्रमात्।। पूर्वेण तपनायेति मार्तंडायेति वै ततः
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते।। पश्चिमे वरुणायेति भास्करायेति चानिले
सौम्ये विकर्तनायेति देवायेत्यष्टमे दले।। आदावंते च मध्ये चनमोस्तु परमात्मने
मंत्रैरेतैस्समभ्यर्च्य नमस्कारांत दापितैः।। शुक्लैर्वस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः
स्थंडिले पूजयेद्भक्त्या गुडेन लवणेन वै।। ततो व्याहृतिमंत्रेण विसृज्य द्विजपुंगवान्
शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः।। तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः।। कृतस्नानजपो विप्रैः सहैव घृतपायसम्
भुक्त्वा च वेदविदुषि वैडालव्रतवर्जिते।। घृतपात्रं सकनकं सोदकुंभं निवेदयेत्
प्रीयतामत्र भगवान्परमात्मा दिवाकरः।। अनेन विधिना सर्वं मासिमासि समाचरेत्
ततस्त्रयोदशे मासि गाश्च दद्यात्त्रयोदश।। वस्त्रालंकारसंयुक्ताः स्वर्णशृंगाः पयस्विनीः
एकामपि प्रदद्याच्च वित्तहीनो विमत्सरः।। न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीं।। सर्वपापविनिर्मुक्तः सूर्यलोके महीयते
आयुरारोग्यमैश्वर्यमनंतमिह जायते।। सर्वपापहरा चेयं सर्वदैवतपूजिता
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी।। इमामनंतफलदां यस्तु कल्याणसप्तमीं
शृणोति यः पठेद्वापि स च पापैः प्रमुच्यते।। विशोकसप्तमीं तद्वद्वक्ष्यामि नृपसत्तम
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते।। माघे कृष्णतिलै स्नातः पंचम्यां शुक्लपक्षतः
कृताहारः कृसरया दंतधावनपूर्वकम्।। उपवासव्रतं कृत्वा ब्रह्मचारी निशि स्वपेत्
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः।। कृत्वा तु कांचनं पद्ममर्कायेति प्रपूजयेत्
करवीरेण रक्तेन रक्तवस्त्रयुगेन च।। यथा विशोकं भुवनं त्वयैवादित्य सर्वदा
तथा विशोकता मे स्यात्त्वद्भक्तिः प्रतिजन्म च।। एवं सपूज्य षष्ठ्यां तु भक्त्या संपूजयेद्द्विजान्
स्वयं संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः।। संपूज्य विप्रान्यत्नेन गुडपात्रसमन्वितम्
सद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत्।। अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः
ततः पुराणश्रवणं कर्त्तव्यं भूतिमिच्छता।। अनेन विधिना सर्वमुभयोरपि पक्षयोः