स याति वैष्णवं लोकममरेश्वरपूजितः।। यावत्कल्पशतं साग्रं वसेत्तत्र नराधिप
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्।। ब्रह्महत्यादिकं किंचिदत्रामुत्राथवा कृतम्
तत्सर्वं नाशमायाति गिरिर्वज्राहतो यथा।। अथातः संप्रवक्ष्यामि रौप्याचलमनुत्तमम्
यत्प्रदानान्नरो याति सोमलोकं नरोत्तम।। दशभिः पलसाहस्रैरुत्तमो रजताचलः
पंचभिर्मध्यमः प्रोक्तस्तदर्धेनाधमः स्मृतः।। अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितः सदा
विष्कंभपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत्।। पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः
कलधौतमयांस्तद्वल्लोकेशान्कारयेद्बुधः।। ब्रह्मविष्ण्वर्कवान्कार्यो नितंबोत्र हिरण्मयः
राजतं स्यात्तदन्येषां पर्वतांना च कांचनम्।। शेषं च पूर्ववत्कुर्याद्धोमजागरणादिकम्
दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम्।। विष्कंभशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः
इमं मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः।। पितॄणां वल्लभं यस्मादिन्दोर्वा शंकरस्य च
रजतं पाहि तस्मान्नः शोकसंसारसागरात्।। इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम्
गवामयुतसाहस्रफलमाप्नोति मानवः।। सोमलोके सगंधर्वैः किन्नराप्सरसांगणैः
पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम्।। अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम्
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा।। अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः।। भारेण चार्द्धभारेणकुर्याद्यः स्वल्पवित्तवान्
विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः।। धान्यपर्वतवत्सर्वं हैमांबरसुसंयुतम्
मेरोरुपरितः स्थाप्यं हैमं तत्र तरुत्रयम्।। मंदारः पारिजातश्च तृतीयः कल्पपादपः
एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निवेशयेत्।। हरिचंदनसंतानौ पूर्वपश्चिमभागयोः
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले।। मंदरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत्
गंधमादनशृंगे तु धनदः स्यादुदङ्मुखः।। प्राङ्मुखो वेदमूर्त्तिस्तु हंसः स्याद्विपुलाचले२०० 1.21.
हैमी भवेत्सुपार्श्वे तु सुरभी दक्षिणामुखी।। धान्यपर्वतवत्सर्वमावाहनमखादिकम्
कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम्।। ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत्
सौभाग्यामृतसारोयं परमः शर्कराचलः।। तस्मादानंदकारी त्वं भवशैलेंद्र सर्वदा
अमृतं पिबतां ये तु पतिता भुवि शीकराः।। देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल
मनोभवधनुर्मध्यादुद्भूता शर्करा पुनः।। तन्मयोसि महाशैल पाहि संसारसागरात्
यो दद्याच्छर्कराशैलमनेन विधिना नरः।। सर्वपापविनिर्मुक्तः प्रयाति ब्रह्ममंदिरम्
चंद्रसूर्यप्रतीकाशमधिरुह्यानुजीविभिः।। सहैव यानमुत्तिष्ठेत्ततो विष्णुप्रभो दिवि
ततः कल्पशतांते तु सप्तद्वीपाधिपो भवेत्।। आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम्
भोजनं शक्तितः कुर्यात्सर्वशैलेष्वमत्सरः।। स्वयं चाक्षारलवणमश्नीयात्तदनुज्ञया
पर्वतोपस्करान्सर्वान्प्रापयेद्ब्राह्मणालयम्।। एतत्ते सर्वमाख्यातं शैलदानमनुत्तमम्