अतः कारणतो राम कर्तव्यैषा भवादृशैः । पातकानां क्षयकरी महादुःखविनाशिनी
शृणुष्वैकमना राम कथां पापहरां पराम् । यस्याः श्रवणमात्रेण महापापं प्रणश्यति
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा । द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै
चंद्रवंशोद्भवो नाम धृतिमान्सत्यसंगरः । तत्र वैश्यो निवसति धनधान्यसमृद्धिमान्
धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः । प्रपा कूप मठाराम तडाग गृहकारकः
विष्णुभक्तिरतः शांतस्तस्यासन्पंचपुत्रकाः । सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा
पंचमो धृष्टबुद्धिश्च महापापरतः सदा । परस्त्रीसंगनिरतो विटगोष्ठी विशारदः
द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः । न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति
अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयंकरः । अभक्ष्यभक्षकः पापी सुरापाने रतः सदा
वेश्याकंठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे । पित्रा निष्कासितो गेहात्परित्यक्तश्च बांधवैः
स्वदेहभूषणान्येव क्षयं नीतानि तेन वै । गणिकाभिः परित्यक्तो निंदितश्च धनक्षयात्
ततश्चिंतापरो जातो वस्त्रहीनः क्षुधार्दितः । किं करोमि क्वगच्छामि केनोपायेन जीव्यते
तस्करत्वं समारब्धं तत्रैव नगरे पितुः । गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात्
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससंभ्रमैः । धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः । न स्थातव्यं हि मंदात्मंस्त्वया मद्देशगोचरे
एवमुक्त्वा ततो राज्ञा मोचितो दृढबंधनात् । निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम्
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति । सिंहवन्निजघानासौ मृग शूकर चित्रलान्
आमिषाहार निरतो वने तिष्ठति सर्वदा । करे शरासनं कृत्वा निषंगं पृष्ठ संगतम्
अरण्यचारिणो हंति पक्षिणश्च पदाचरन् । चकोरांश्च मयूरांश्च कंक तित्तिर मूषिकान्
एतानन्यान्हिनस्त्यंधो धृष्टबुद्धिस्तु निर्घृणः । पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम् । कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित्
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम् । आससाद धृष्टबुद्धिः शोकभारेण पीडितः
तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः । कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि
धृष्टबुद्धिरुवाच- भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि । येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद
कौंडिन्य उवाच- शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव । वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः । मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम्
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता । इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः
व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः । कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः । जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम्
इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम् । नातः परतरं किंचित्त्रैलोक्ये सचराचरे